पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/172

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
पातञ्जलयोगसूत्रभाष्यविवरणे

[भाष्यम् ]

नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते ।

 स्वाध्यायः प्रणवादिपवित्राणां जपः, मोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं, तत्फलसंन्यासो वा ॥ १ ॥  स हि क्रियायोगः

[ सूत्रम् ]

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥

[ भाष्यम् ]

 स ह्यासेव्यमानः समाधिं भावयति, क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान् क्लेशान् प्रसंख्यानग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति ।

[ विवरणम् ]

नान्तरेण तपः तपसा विना सम्भेदं विनाशम् आपद्यते, असम्भिन्नाशुद्धेश्चित्तस्य कुतः समाधिः इति तत्सम्भेदनाय च तपस उपादानम् । तच्च तपः चित्तप्रसादनं समाध्यन्तरङ्गं अबाधमानमनेनासेव्यमिति योगो मन्यन्ते । चित्तप्रसादार्थत्वात्तपसस्तमेव चेद्बाधेत तादर्थ्यमेव हीयेत ॥ १ ॥

 स हि क्रियायोगः किमर्थं इति तस्य पारार्थ्यप्रतिपादनार्थमाह--समाधिभावनार्थः क्लेशतनूकरणार्थश्च

 कथं पुनरुभयार्थत्वमित्याह--स हि आसेव्यमानः समाधिं भावयति । इतरयोगाङ्गसहितः समाधिं भावयति क्लेशांश्च तनूकरोति । वक्ष्यति च--"[१]योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः" इति । तदेतदाह--तनूकृतान्क्लेशान्प्रसंख्यानेन क्लेशतनूकरणात् सञ्जातसम्यग्दर्शनशीलनेन, दग्धबीजकल्पान् बीजानीव दग्धप्रसवशक्तीन्, अत एव अप्रसवधर्मिणः अविद्यमानः प्रसवो येषां ते अप्रसवाः, अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः, (सर्वबीजादिषु वा द्रष्टव्यम्) तानप्रसवधर्मिणः करिष्यति प्रसवशक्तिरहितान् करिष्यति ॥

  1. यो. सू. पा. 2. सू· 28.