पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/163

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



११५
समाधिपादः प्रथमः


[ सूत्रम् }

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥

[ भाष्यम् ]

 श्रुतं आगमविज्ञानम् ! तत् सामान्यविषयम् । न ह्यागमेन शक्यो विशेषोऽभिधातुम् । कस्मात्? न हि विशेषेण कृतसङ्केतः शब्द इति । तथा अनुमानं सामान्यविषयमेव । ‘यत्र प्राप्तिः तत्र गतिः, यत्राप्राप्तिः तत्र न भवति गतिः' इत्युक्तम् । अनुमानेन च सामान्येनोपसंहारः । तस्मात् श्रुतानुमानविषयो न विशेषः कश्चिदस्तीति ।

 न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । न चास्य विशेषस्य अप्रमाणकस्य अभावोऽस्तीति समाधि प्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा ।


[ विवरणम् ]

 सा पुनः ऋतम्भरा प्रज्ञा सामान्यपुरुषप्रत्ययविषयादन्यविषयेत्याह-- श्रुतानुमानप्रज्ञाभ्यामन्यविषया । विशेषः विशेषाणामानन्यान्न सङ्केतयितुं शक्यते । सामान्येन हि कृतसङ्केतः शब्दः । ततश्चागृहीतविशेषसङ्केतो न विशेषमभिधातुं ज्ञापयितुं वा शक्नोति ॥

 तथानुमानं सामान्यविषयमेव । तदप्युक्तमेव 'सामान्यावधारणप्रधाना वृत्तिः' इति । तथोदाहरणेन च प्रतिपादितम् ' यत्र प्राप्तिस्तत्र गतिः । यत्राप्राप्तिस्तत्र न भवति गतिः' इति । अनुमानेन सामान्योपसंहारः । सामा न्यमात्रमनुमानेनोपसंह्रियते । तस्माच्छ्रुतोनुमानविज्ञानविषयो न विशेषः कश्चिदस्ति ll

 यद्येवं न लोकप्रत्यक्षेणापरेण भूतसूक्ष्मगतः पुरुषगतो वा विशेष: प्रज्ञायेत । नान्यच्च प्रमाणत्रयव्यतिरिक्तं प्रमाणमस्ति, येन तद्विशेषं सञ्जानीमहे इति चेदाह--न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् । न चास्य विशेषस्याप्रमाणिकस्याभावोऽस्तीति । प्रमाणावगम्य मानरूपो हि भावोऽस्ति राजवीथीमधिरोहति । तस्मात् समाधिप्रज्ञानिर्ग्राह्म एव विशेषो भवति भूतसूक्ष्मगतः पुरुषगतो वा ॥