पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/160

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । आप्यस्य रसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् ! आकाशस्य शब्दतन्मात्रमिति । तेषामहङ्कारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यालिङ्गं सूक्ष्मो विषयः । न चालिङ्गात्परं सूक्ष्ममस्ति ।

 नन्वस्ति पुरुषः सूक्ष्म इति-सत्यम्-यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं, नचैवं पुरुषस्य । किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥

[ विवरणम् ]

 गन्धमात्रस्वरूपमात्रस्यापि लिङ्गमात्रं महत्तत्वं सूक्ष्मो विषयः । ततो लिङ्गमात्रान्महतो निर्वृतानि सहाहङ्कारेण तन्मात्राणि लयं गच्छन्तीति लिङ्गं, लयाद्वा प्रधानाल्लिङ्गात्प्रत्यागच्छन्तीति लिङ्गं, तद्विपरीतमलिङ्गं प्रधाने न लयं गच्छति, नाप्यन्यतः कुतश्चित् लयादागच्छति ।लिङ्गमात्रस्या लिङ्गं सूक्ष्मो विषयः ॥

 न चालिङ्गात्परं सूक्ष्ममस्ति । सूक्ष्मं नाम स्थूलकार्यापेक्षया कारणं, तञ्चालिङ्गावसानम् । न चालिङ्गात् प्रधाना(ल्लिङ्गा)दन्यत्सूक्ष्मं कारणमस्ति ।

 ननु पुरुष इति । ननु तत्र पुरुषस्यानाशङ्कैव, कार्यकारणसूक्ष्मतया प्रक्रमात्--नैष दोषः-पुरुषस्यापि कैश्चित्कारणत्वस्याभ्युपगमात् । तदाशङ्कयैव ह्येतदुच्यते ननु पुरुष इति । सत्यमलिङ्गात्मक[त्व]मलिङ्गस्य सौक्ष्म्यम् । कुतः ? यतः कारणमलिङ्गं लिङ्गस्य । यद्यस्यान्वयिकारणं तत्तदपेक्षया सूक्ष्ममिति प्रकृतम् । ननु पुरुषोऽप्यलिङ्गात्मक एव । बाढं, न तु लिङ्गापेक्षया पुरुषः सूक्ष्मः । कुतः ? यतस्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति सत्यप्यलिङ्गात्मकत्वे । कार्यस्य चैतन्येनानन्वितत्वात् ॥

 किञ्च-पुरुषस्यापि भोग्यत्वप्रसङ्गः । तथा च पारार्थ्यं सुखदुःखमोहात्मकत्वं च, निर्हेतुकत्वं च प्रधानस्य (पुरुषस्य) । तच्च सर्वप्रमाण(प्राण) विप्रकुपितमित्यत आह---हेतुस्तु भवतीति । प्रधानप्रवृत्तौ भोक्तृत्वेन निमित्तं भवतीत्यर्थः । अतः प्रधानस्य सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥