[ भाष्यम् ]
यस्य पुनरवस्तुकः स प्रचयविशेषः, सूक्ष्मञ्च कारणमनुपलभ्यं अविकल्पस्य तस्य अवयव्यभावात् अतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानामिति ।
[ विवरणम् ]
अपि.च---एको घट इति घटशब्दवाच्यस्यैकत्वेन सामानाधिकरण्यात् । अस्ति चेदं सामानाधिकरण्यं योऽसावेक इति । न हि बहूनामणूनामेकत्वेन सामानाधिकरण्यमुपकल्पते ॥
तथा महत्त्वेन । न चाणूनां अमहत्तां महत्वेन सामानाधिकरण्यं युज्यते। तथाऽणीयस्त्वेन । न ह्यणूनामण्वन्तरापेक्षया अणीयस्त्वं घटते। सर्व एव हि तेऽणीयांसः | नापि चाणूनामणुत्वं गृह्यतेऽणुभ्यः । अणुत्वे वस्त्वन्तरस्याणीय स्त्वमुपपत्स्यते ।
किञ्च----क्रियाधर्मकश्च । क्रिया धर्मो यस्य स क्रियाधर्मकः । फलवद्व्या पारनिर्वृत्तिकरत्वादित्युक्त्तं भवति । न ह्यणूनां फलवद्व्यापारनिर्वृत्तिकरत्वं युक्तम् । अशक्यप्रयोज्यत्वादस्मदादिभिः । किञ्च---अनित्यत्वात् । न ह्यणूनामानित्यत्वं गृह्यते ॥
किंच----दृश्यत्वात् । न ह्यणवो दृश्यन्ते ! तथा स्पृश्यत्वाच्च हानाच्चो पादानाच्च धारणाच्चेत्येवमादयः । तेनावयविना व्यवहाराः क्रियन्ते नाणुभिरिति ॥
यस्य पुनः इत्थं प्रमाणसुप्रसिद्धसत्ताकोऽपि अवस्तु[कः] अवयवी, स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यं अण्वादि, |}} तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव विषयज्ञानं प्राप्तं मिथ्याज्ञानम् ॥
ततः सर्वमेव ज्ञानं शब्दाद्याकारेण सुखाद्याकारेण तद्ज्ञानाकारेण चोपजायते । शब्दादयश्व ज्ञानाकारकरावयवित्वाभिमता नाभ्युपगम्यन्ते । सुखादयोऽपि विषयत्वादवयविपक्षा एव । तथा तज्ज्ञानमेव ज्ञानाकारकरत्वात्स्व रूपमपि मिथ्येति प्राप्तं सर्वमेव मिथ्याज्ञानम् ॥
ततश्च प्रत्यक्षानुमानयोरप्याभासत्वमेव तेनाभ्युपेतं तयोरपि शब्दादि- विषयत्वात् ॥