पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/151

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
समाधिपादः प्रथमः

[ भाष्यम् ]

 यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थः तत्स्वरूपाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का समापत्तिः। तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयो- र्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम् । तस्मादसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ।  निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते--

[ विवरणम् ]

 अनेकजन्मान्तरशब्दार्थसङ्केतज्ञानसंस्कारविशिष्टत्वाद्योगिनोऽपि प्रथमतरा सम्पत्तिर्लोकप्रत्ययाविशिष्टा । एष तु विशेषो यत् लब्धस्थितिपदत्वाद्योगिचित्त्स्य समानप्रत्ययप्रवाहतेति ॥ ४२ ॥

 इदानीं निर्वितर्का समापत्तिरुच्यते । यदा पुनः शब्दसङ्केतस्मृति- परिशुद्धौ | शब्दसङ्केतोऽस्यायं वाचकः अयमस्य वाच्य इति समयप्रतिपत्तिः । तज्जनितस्मृतिः शब्दसङ्केतस्मृतिः । तस्याः परिशुद्धिर्मिथ्यात्वाद्विनिवृत्तिः । सा रजस्तमसोर्न्याभावात् ॥

{{gap}]श्रुतज्ञानं आगमिकम , अनुमानज्ञानं लैङ्गिकं, ते च सामान्यविषय एवानुमानागमज्ञाने, तयोर्विकल्पो हि विशेषाध्यारोपः तेनाध्यासेन शून्यायां योगिनः समाधिप्रज्ञायां व्यावृतलैङ्गिकसाङ्केतिकज्ञानाध्यासायां स्वरूपमात्रेण मात्रग्रहणं दिग्देशकालानुभावादिभ्योऽपि व्यावृत्त इत्येवमर्थं, स्वैरेव धर्मैर्महीयमानः तत्स्वरूपमात्रतयैव तस्यार्थस्य स्वरूपमात्रतयैव योगिनः प्रज्ञा अवच्छिद्यते । न तस्मादर्थाद्विहिर्देशकालादि किंचिदालोचयतीत्यर्थः ।

 स्वमपि ग्रहणात्मकं रूपं तत्प्रज्ञा नालोचयति, निर्मलतरत्वात् । ग्राह्यमात्रैव सा विभाव्यते| सा च तादृशी निर्वितर्का समापत्तिः । निर्गतो वितर्कोऽस्याः निर्वितर्कः वितर्कोऽध्यारोपः । सोऽस्यां नास्ति ॥

 तत् एतत् परं उत्कृष्टं शुद्धं प्रत्यक्षं अपरं प्रत्यक्षं सर्वसाधारणं पुरस्ताद्वृत्ति मध्ये पठितमिद योगिन एवेति । तच्छुतानुमानयोर्बीजम् । यद्यपि पूर्वोक्तमपि श्रुतानुमानयोर्बीजमेव, तथाऽपि तत्कार्ये श्रुतानुमाने व्यभिचरतोऽपि, न पुनर्निर्वितर्कसमाधिजप्रत्यक्षप्रभवे व्यभिचरत इत्यत आह-ततः श्रुतानुमाने प्रभवत इति ॥