पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/150

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
पातञ्जलयोगसूत्रभाष्यवैविवरणे

[ सुत्रम् ]

तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः॥४२॥

[ भाष्यम् ]

 तद्यथा गौरेिति शब्दो गौरित्यर्थो गौरिति ज्ञानं इत्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्ये अर्थधर्माः अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थ: समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्का इत्युच्यते ॥ ४२ ॥

[ विवरणम् ]

 सैषा समापत्तिश्चतुष्टयी । तत्र प्रथमां समापत्तिं व्याचष्टे-शब्दार्थ- ज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । शब्दश्चार्थश्च ज्ञानं च शब्दार्थज्ञानानि तेषां विकल्पाः शब्दार्थज्ञानविकल्पाः । ध्यातव्यालम्बन-- विषयैर्विकल्पैः संकीर्णा विमिश्रा इतरेतरप्रत्ययानुविद्धा सा संकीर्णसमापत्तिः ॥

 ननु च शब्दार्थप्रत्यया इतरेतरव्यावृत्तस्वरूपाः, योगी चैकं वस्तु ध्येयत्वेनालम्बते शब्दमर्थं प्रत्ययं वा, तत्र कः शब्दार्थज्ञानविकल्पसङ्करः ? ॥

 एवमेवैतत् । तथाऽपि अयमेव संव्यवहारो लोके, यदुताविभागेन ग्रहणम् । तद्यथा गौरिति शब्दो गौरित्यर्थों गौरिति ज्ञानमित्यविभागेन लोके ग्रहणं दृष्टम् । एवं हि लोकं त्रयमपि गौरित्येव व्यपदिशति । तथाऽन्यत- रग्रहणेऽवशिष्टयोरपि स्मृतिः ।

 ननु च तथाभूतमेतद्वस्तु-नैवं-शब्दार्थसङ्केतग्रहणोत्तरकालभावित्वात् । ननु सङ्केतादपि प्राक् सामान्यशब्दं यं कश्चिदध्यवस्यत्येव-न-विविक्तानामपि ग्रहणदर्शनात् । विविच्यमानाश्चान्ये शब्दधर्मा गकारादिवर्णोदात्त- स्वरितद्रुतमध्यविलम्बितश्रोत्रग्रहणादयः । ते नार्थज्ञानयोः ! तथान्येऽर्थधर्माः सास्नालाङ्गूलककुदखुरविषाणदर्शनस्पर्शनादयः ! तथा (च)अन्ये प्रत्ययधर्माः पुरुषग्राह्यात्मकत्वावभासात्मकत्वसंस्काराधायित्वादयः, न ते शब्दार्थयोः । न [तेन]परमार्थतोऽन्योन्यधर्मसङ्करगन्धोऽप्यस्ति । तेन विविक्त्तः पन्थास्तेषाम् ॥

 तत्र यत्र क्वचन समापन्नस्य यो ह्येवार्थः समाधिप्रज्ञामुपारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्धः शब्दार्थसङ्केतकृतो य इतरेतरस्मृत्यनु- व्याधस्तद्विशिष्टश्चेदर्थ उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते ॥