पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/142

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
समाधिपादः प्रथम:



[ भाष्यम् ]

 नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित् | तालुनि रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित्, इत्येता वृत्तय उत्पन्नाश्रितं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्ति इति |

 एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या ।

 यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति । एतेषां यथामूतार्थप्रतिपादनसामर्थ्या‌त् । तथाऽपि यावदेक- देशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति, तावत् सर्वं परोक्षमिवापवर्गा- दिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्विमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योप- देशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः ।

[ विवरणम् ]

जननो निर्मथ्यमानस्याग्नेरिव धूमसमुद्भवः, सा प्रवृत्तिः । सा च तादृशी प्रवृत्तिरुत्पन्ना प्रत्ययकरणात् प्रहर्षयन्ती योगिनश्चित्तं स्थितौ निबध्नाति ॥

 नासिकाग्रे चित्तं धारयतो गन्धसंवित् प्रह्लादनकरसुरभिगन्धसंवेदनं निरन्तरतया सम्म्तसंयोगमिवाचक्षाणा जायते । सा गन्धप्रवृत्तिः । तथा जिह्वादिषु । धारयत इति सम्बध्यते । ता एताः प्रवृत्तयः स्थितैौ चित्तं निबध्नन्ति । संशयं विधमन्ति समाधिप्रज्ञायाश्च द्वारीभवन्ति ॥

 एतेन रश्मिचन्द्रादित्यग्रहप्रदीपादिषु चित्तं धारयतो हृदयपुण्डरीके- वा धारयतो वैषम्याद्रश्मिचन्द्राद्याकारा प्रवृत्तिरुत्पन्ना विषयवतीत्येव वेदितव्या ॥

 यद्यपि शास्त्रानुमानाचार्येभ्योऽवगतमर्थतत्त्वं तथाभूतमेव अव्यभिचारिस्वरूपमेव । तेषामन्यथाभूताप्रतिपादकत्वात् । तथाऽपि यावदेक- देशोऽपि स्वकरणसंवेद्यो न भवति प्रत्यक्षो न भवति शास्त्राद्युपदिष्टस्यार्थ- स्यैकदेशोऽपि, तावत् सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धि- मुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपोद्बलनार्थमवश्यं कश्विद्विशेषः प्रत्यक्षीकर्तव्यः ॥