पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/140

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
समाधिपादः प्रथम:



[ भाष्यम् ]

  तस्मादेकमनेकार्थमुवस्थितं च चित्तम् । यस्य चित्तस्यावास्थितस्येदं शास्त्रेण पारकर्म निर्दिश्यते ॥ ३२ ॥ तत्कथम्---

[सुत्रम्]]

 मैत्रीकरुणामुदतोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ||

[ भाष्यम् ]

 तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत् । दुःखितेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसीदति । प्रसन्नमेकाग्रं स्थितिपदं लभते ॥३३॥

[ विवरणम् ]

 मानानि पेशलानि दर्शयन्ति । तथा चाह--तस्मादेकमनेकार्थमवस्थितं च चित्तम् । यस्येदं शास्त्रेण परिकर्म निर्देिश्यत इति--शास्रोपदेशसम्बन्धित्वं चित्तस्यावस्थितत्वे हेतुमुपदिशति । न हि विशीर्यमाणस्य घटस्य प्रक्षालनपरिवर्तनादिसंस्कारः क्रियते ॥ ३२ ॥

 कथं चित्तपरिकर्म निर्देिश्यते ? तथैकतत्त्वाभ्यास इति चोक्तम् , किं च। तदेकं तत्त्वम्? यद्विषयेऽभ्यास इति ! तत आह--

 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनात- श्चित्तप्रसादनमिति | मैत्री मित्रविषया भावना । तादृशीं सुखितेषु सुखमनुमोद- यन्तीमसूयादिवर्जिताम् । तथा दुःखितेषु करुणां कृपामू अनुजानतीं दुःखम् । पुण्यात्मकेषु मुदितां पुण्यशीलतामनुजानतीम् । अपुण्यशीलेषु चोपेक्षाम् अपुण्यशीलव्यापारेषूदासीनतां च भावयेदित्यनुषज्यते ॥

 सर्वत्रैवमस्य भावयतः, शुक्ल इति विशुद्धः प्राण्युपघातादिवर्जनाच्छुक्लो धर्मः । ततः स धर्म इव जातश्चित्तं प्रसादयति । तेन प्रसन्नं चित्तमेकाग्रं स्थितिपदं लभते । एकाग्रतया समाधीयत इत्यर्थः तदुक्तम्--'1प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते' इति ॥


1.भ्. गी. 2. 65