पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/136

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
समाधिपादः प्रथमः

 अथ कालान्तरावस्थायेि, तदा क्षणिकत्वहानिः । क्षणान्तरं चेदवतिष्ठेत, दीर्घकालावस्थायित्वे कस्य स्यादक्षमा ॥


 अथापि प्रवृत्तिविज्ञानसंस्कारविशिष्टस्यान्तरालभाविन आत्मसदृशस्य भविष्यत आलयविज्ञानस्य संस्कारमाधाय पूर्वमालयविज्ञानं विनङ्क्ष्यतीति--

 तच्च न--संस्कारान्तराभावात् । अस्ति चेदनवस्थाप्रसङ्गः । अथ नास्त्याधारः, तत्र किं प्रवृत्तिविज्ञानस्यालयविज्ञानकल्पनया संस्कराधानाय । यथा आलयविज्ञानमुत्पित्सिष्यमाणस्य तत्कालमसतः आलयविज्ञानस्य संस्कारमाधत्ते, तथा प्रवृत्तिविज्ञानमपि उत्पित्सिष्यमाणस्य तत्कालमसतः प्रवृत्तिविज्ञानस्यैव संस्कारमाधत्तामनपेक्ष्यालयविज्ञानम् ॥

 न च विनश्यत् अन्यस्य भाविनस्तत्कालमविद्यमानस्य संस्कारमाधत्तॆ इत्यस्य दृष्टान्तो दृश्यते । नापि भाविन्येव संस्कारं कुर्वीत । पूर्वेण भविष्यत्संस्क्रियते, भविष्यति चेति विरुद्धम् । तत्कालं चेदसद्भविष्यत्संक्रियते, किं तुल्यातुल्यसन्ततिकल्पनेन ? असंबन्धाविशेषात् सर्वं सर्वेण संस्क्रियेत ॥

 नापि भविष्यद्विनश्यतोर्युगपदुत्पत्तिविनाशावक्षणिकत्वप्रसङ्गात् । अथ तुलान्तयोरिव नत्युन्नती युगपत्पूर्वविनाशोत्तरसमुत्पत्ती स्याताम् (न) वस्तुनोरिति चेत्--न--अभ्युपगमविरोधात् । न हि वैनाशिकेनोत्पत्तिविनाशक्रियाव्यतिरेकेण कारकमन्यदिष्यते । अभ्युपगमे च सिद्धान्तविरोधः ॥

 किं च-अन्यत्वे च क्रियाकारकयोर्यावत्क्रियोत्पत्ति कारकेणावस्थातव्यं, ततश्च क्षणिकत्वहानिः ! अ[न]वस्थाने च क्रियार्थं ततः[तस्य]उपादानमनर्थकम् ॥

 किं चान्यत्--क्रियाया एव कारकत्वे कारकस्यापि क्रियात्वे क्रियाकारकशब्दौ पर्यायौ स्याताम् । ततश्चाङ्कुरो जायते, देवदत्तो जायत इत्यङ्कुरदेवदत्तयोः पर्यायत्वं स्यात् । तयोर्जनिक्रियामात्रत्वात् ॥

 अथ अन्यजनिक्रया देवदत्तविशिष्टा अन्या चाङ्कुरविशिपष्टेति चेत्—-अभ्युपेतं तर्हि विशेषणं कारकं, न हि स्वरूपेण किञ्चिद्विशिष्टं स्यातू ॥

 अथोच्येत, स्वरूपेणैवोत्पत्तिक्रिया उत्पत्तिक्रियान्तराद्विशिष्टा यथा स्वलक्षणानि रूपादीनि इति--तच्च न--भावाभावयोरेकत्वप्रसङ्गात्। इहाङ्कुरो जायते नश्यत्यङ्कुर इति च य एव जायते स एव नश्यति तत्राङ्कुरजनन-