पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/135

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति ॥

यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्, अथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्, अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् ॥

[ विवरणम् ]

 अथापि मन्यते प्रवाहांशस्यैव प्रत्ययस्य कस्यचिदेकाग्रता धर्मः, यथैकस्यां पिपीलिकासन्ततावेकापि पिपीलिका लोहितेति--तच्च न--पूर्वदोषानुषक्तेः । सर्वः प्रत्ययः प्रवाहांशः सदृशवाही विसदृशवाही वा पूर्ववत् प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानवलृप्तिः । तस्मादेकमनेकार्थमवस्थितं च चित्तमभ्युपगन्तव्यम् । यदि शास्रेण चित्तपरिकर्मोपदेक्ष्यते ॥

 किं च-- यदि चित्तैनेकनानन्विताः करणेन स्वभावभिन्नाः प्रत्यया जायेरंस्तदा ब्रूहि कथमन्यप्रत्ययदृष्टस्यान्यः प्रत्ययः स्मर्ता भवेद्देवदत्तदृष्टस्येव यज्ञदत्तः । अन्यप्रत्ययोपचितस्य वा कर्माशयस्यान्यः प्रत्यय उपभोक्ता ॥

 न हि भविष्यत्पुत्रः पित्रा रचितकर्माशयफलं स्वर्गदि प्रत्युपभुञ्जीत । अथ ब्रूयात्---विशिष्टभविष्यत्पुत्रविज्ञानार्थं विनश्यत्प्रवृत्तिविज्ञानमालयविज्ञानसंस्कारं कञ्चनाधत्ते इति—-नैतदेवम्--आलयप्रवृत्तिविज्ञानयोरत्यन्तभेदादवस्तुत्वाच्च ॥

 यद्यालयविज्ञानान्न तत्प्रवृत्तिविज्ञानं, तदा तदेव तदिति नाममात्रभेदः, तथा च संस्काराधानयुक्तत्वात् स्मृत्यनुपक्लृप्तिः । अथाप्यन्यत्--एवमप्यन्यत्प्रवृत्तिविज्ञानमालयविज्ञाने संस्कारं नादधीत, भिन्नत्वात् । यथा सन्तत्यन्तरालयविज्ञाने ॥

 किं च—-यद्यपि संस्कारमाधत्ताम्, तथापि प्रवृतिविज्ञानापादितसंस्कारमालयविज्ञानं देशकालान्तराक्षमम् । तस्यापि क्षणिकत्वाभ्युपगमाद्विनश्यच्च तावत्येव नोत्तरविज्ञानोपकाराय पर्याप्नोति । देशकालान्तरव्यवहितं चेदुपकुर्वीत, तदा भिन्नसन्तानान्तरजन्मनाप्युपकर्तव्यम् ॥