पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/134

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
समाधिपादः प्रथमः



[ भाष्यम् ]

 योऽपि सदृशप्रत्ययप्रवाहेण चितमेकाग्रं मन्यते, तस्य एकाग्रता यदि प्रवाहचित्तस्य धर्मः, तदा एकं नास्ति प्रवाहचित्तम् ; क्षणिकत्वात् ।

[ विवरणम् ]

 यदि वृत्तय एव परस्परभिन्नाः स्वतन्त्रा वृत्तिमतोऽत्यन्तभिन्ना जायेरन् प्रत्यर्थनियताश्च, तत एष दोषः स्यात् । न चैवमभ्युपेयते ॥

 कथं तर्हि ? वृत्तिमद्रूपेणैकमनेकार्थं च तद्वृत्तीनां विषयभेदादवस्थितं च सदसतोर्वेिपर्ययानभ्युपगमादित्येवमात्मपक्षे समञ्जसतां दर्शयति--यदि पुनरिदं चित्तं वृत्तिभेदेनानेकधा (म्मिलावयवद्धि) प्रसृतं साङ्ख्ययोगवादिन इव तवापि सर्वतः सर्वेभ्यः विषयेभ्यः प्रत्याहृत्य प्रत्यानीयैकस्मिन्नात्माद्यर्थे समाधीयेत स्थाप्येत तदा भवत्येकाग्रं पुरुषप्रयासभाव्यत्वार्हमित्यर्थः ॥

 ततो युक्तस्तत्परिकर्मणे शास्त्रोपदेशः । (अतो न प्रत्यक्षम्) अतोऽस्मात् कारणात् तत्परिकर्मविषयशास्त्रोपदेशात् सांख्ययोगवादिवत् क्षणिकवादिनोऽपि एकमनेकार्थमवस्थितं च चित्तं न प्रत्यर्थनियतं (वा) पश्चादभ्युपगमनीयम् । अन्यथा शास्रविरोधः स्यात् । योऽपि सदृशप्रत्ययप्रवाहं चित्तमकाग्रं मन्यते सदृशः समानः प्रत्ययप्रवाहो यस्यैकस्यां सन्ततौ तच्चित्तमेकाग्रम् । तद्विपरीतम् असमानप्रत्ययप्रवाहं विक्षिप्तम् । तथा चैकाग्रता विक्षेपप्रतिषेधेनोपपद्यते, तदर्थोपदेशश्चेति कुतः शास्त्रविरोध इति ॥

 इतर आह--न--प्रवाहचित्तस्यैकस्य धर्मिणोऽनभ्युपगमात् । न हि प्रवाहचित्तं नामैकमतीतवर्तमानभविष्यत्प्रत्ययानां धर्मिणमभ्युपगच्छति । यदि ह्यभ्युपगच्छेत् परित्यक्तः स्वपक्षः । कस्मात् ? प्रवाहचित्तस्याक्षणिकत्वात्तदेवैकं नास्ति, यस्यैकाग्रता धर्मः। प्रत्ययानेव ह्यन्योन्यसंहतान् पिपीलिकापङ्क्तिकल्पानसावभ्युपगच्छति ॥

 अथैवं मन्यते, यद्यप्येकं नास्ति तथापि सर्वेषामेव प्रत्ययानां सदृशप्रवाहाणामेकाग्रता धर्म: प्रदीपार्चिषामिव प्रकाश इति--तत्राह--नायुगपत्कालोत्पत्तिविनाशानां समाहारः सम्भवति । दृष्टान्तस्य च साध्यविकलत्वात् । न हि बह्वीनामार्चिषामेकः प्रकाशः । प्रत्यर्चिषमस्य भेदात् । नचापि प्रकाशस्यार्चैिषां चैको धर्मों ना[मा]स्ति ॥