पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/131

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पातञ्जलयोगसूत्रभाष्यविवरणे पृष्ठम् ८२

पातज्ञलयेोगसूत्रभाष्यविवरणे

[ भाष्यम् ] भ्रान्तिदर्शनम् विपर्ययज्ञानम्। अलब्धभूमिकत्वं समाधेिभूमेरलाभ: । अनवस्थितत्वं यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यात् इति । एते चित्तविक्षेपा नव योगमलाः, योगप्रतिपक्षाः, योगान्तराया इत्यभिधीयन्ते ॥ ३० ॥

[ सूत्रम् ] दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा वेिक्षेपसहभुवः ॥ ३१ ॥

[ भाष्यम् ] दुःखम् आध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभिहताः प्राणिनः तदपघाताय प्रयतन्ते तद्दुःखम् । दौर्मनस्यम् इच्छाविघाताच्चेतसः ।

[ विवरणम् ] भ्रान्तिदर्शनं विपर्ययज्ञानं योगसाधनेषु तन्मार्गे वा विपरीतवृत्तिः । अलब्धभूमिकत्वं समाधिभूमेरलाभः । भूमयो वितर्कादयश्चित्तस्य धर्मविशेषा उत्ता वक्ष्यमाणाश्च । अनवस्थितायामपि समाधिभूमौ ततः कथमपि प्रचलितस्य चित्तस्य पुनस्तत्रावस्थितत्वमेव स्यात्तदलाभस्त्वनवस्थितत्वमुच्यते ॥

तदेते नवान्तरायाः । अन्तरं विवरं विच्छेदं कुर्वन्त अयान्तीत्यन्तरायाः विक्षेपाः, प्रतिपक्षाः योगप्राप्तेरूपसर्गाः । एते च सह चित्तवृत्तिभिर्भवन्ति । चित्तं विक्षिपन्ति विषयेष्विति चित्तविक्षेपाः । क्षिप्रं ते [क्षिपन्ति] सहैते वृत्तिभिः पञ्चतयीभिरन्योन्यप्रयोज्यप्रयोजकभावेन भवन्ति । अथैषामभावे व्याधिप्रभूतीनामभावे सहायबलाभावान्न भवन्ति पूर्वोक्ताः प्रमाणादयश्चित्तवृत्तयः । तद्भावभावित्वात्तुल्यप्रत्यनीका वृत्तिविक्षेपा इत्युक्तं भवति ॥ ३० ॥

दुःखं येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते चेष्टन्ते । तच्च त्रिविधम् । आध्यात्मिकम्, अधि आत्मनीत्यध्यात्मम्, तत्र भवमाध्यात्मिकम् । तच्च शारीरं मानसं च । शारीरं धातुवैषम्यादिनिमित्तम् । मानसमिष्टविघातादिहेतुकम् । आधिभौतिकम् अधि भूतेष्वित्यधिभूतम्, तत्र भवमाधिभौतिकम् । तच्च पशुमृगाद्युपनिपतितम् । अधिदैविकमिति अधि देवेष्त्रित्यधिदेवम्, तत्र भवमाधिदैविकम्। अध्यात्मादिभ्यष्ठक् इत्युपसंख्यानात् ठक्। अनुशतिकादित्वादुभयपदवृद्धिः । तच्चापि वातवर्षादिनिमित्तम् । तदेकमेव सन्निमित्तभेदेन रजोरूपं भिद्यते ॥