पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/129

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

く○ पातञ्जलयोगसूत्रभाष्याविवरणे [ सूत्रम् ]

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥

[ भाष्यम् } ये तावदन्तराया व्याधिप्रभृतयः, ते तावदीश्वरप्रणिधानान्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः , केवलोऽनुपसर्गः, तथा अयमपि बुद्धेः प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥ २९ ॥

अथ केऽन्तरायाः ? ये चित्तस्य विक्षेपाः । के पुनस्ते ? कियन्तो वा ? इति- [ विवरणम् ]

किञ्चास्य भवति ? पूर्वसूत्रे चित्तमेकाग्रं सम्पद्यत इत्युक्तमेकं फलम् , तदेपक्षया किञ्चेति चकारः । किञ्चान्यदप्यास्ति फलम् ? आहोस्विच्चितैकाग्रत्वमेवेति, तत्राह--ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । ततः तस्मादीश्वरप्रणिधानात् प्रत्यक्चेतनाधिगमः प्रत्यक् स्वबुद्धिं चेतयत इति प्रत्यक् चेतन आत्मा, तस्य अधिगमो यथावत्स्वरूपसंवेदनम् ॥

ननु चाधिगत एव प्रत्यात्मं पुरुषोऽहं सुखी दुःखी चाहमिति ! एवं प्रसिद्धं, ततः कि विशेषेणोच्यते इति । सत्यमेवम्-किं त्वविशिष्टोऽसौ प्रत्ययश्चित्तस्य वृत्या । किञ्च-सुखी दुःखी चाहमिति सुखदुःखिसामानाधिकरण्यादिहाहंप्रत्ययस्य चित्तवृतिविषयत्वादविद्याप्रत्यय एव प्रसिद्धिः ॥ कथं तर्ह्यस्याधिगम इत्याह---यथैवेश्वरः पुरुषः शुद्धः क्लेशादिमलवर्जितस्तत एव प्रसन्नः स्वच्छस्तत एव केवलो निस्त्रिगुणस्तत एव निरुपसर्गस्तापत्रयवर्जितः प्रकृष्टसत्त्वप्रतिसंवेदी च तथाऽयमपि मदीयः पुरुषः शुद्धः प्रसन्नः केवलो निरुपसर्गो बुद्धेः प्रतिसंवेदीत्यवगच्छति ॥

यथा तथेति च दृष्टान्तदार्ष्टान्तिकनिर्देशादीश्वरक्षेत्रज्ञयोर्भेद उक्तो भवति । बद्धमुक्तोपपत्तेश्च । प्रधानस्य पारार्थ्योपपत्तेः ।। क्षेत्रज्ञानां चात एव परस्परभेदः ।