पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/125

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

૭ફ पातञ्जलयोगसूत्रभाष्यविवरणे

 [ सूत्रमू ]

 तस्य वाचकः प्रणवः ।। २७ ॥

 [ भाष्यम् }

वाच्य ईश्चरः प्रणवस्य ।

 [ विवरणम् }

  यथा दृष्टगुरव उपासनेनाभिमुखीकृतास्तदुपासनपराननुगृह्णन्ति, तथाऽयं परमगुरुरप्याभिध्यानमात्रेणानुग्रहं करोति । तथा च 1श्रुतिः--

  "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥” इति । 2स्मृतिरपि {gap "मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

निवैरः सर्वभूतेषु यः स मामेति पाण्डव ॥" इति ॥ २६ ॥

ईश्वरप्रणिधानादित्युक्तं, स कथं प्रणिधातव्यः ? किं च तत्प्रणिधानसाधनम् ? येन प्रणिधाता प्रणिधत्त इति तत्प्रणिधानसाधनप्रतिपादनार्थमाह-- तस्य वाचकः प्रणव इति । तस्य ईश्वरस्य यथोक्तलक्षणस्य वाचकः अभिधायकः प्रणवः सास्नादिमत इव गोशब्दः ।

प्रकर्षेण नूयते स्तूयते अनेनेति प्रणवः । यदि वा, प्रणौति स्तौतीश्वरमिति प्रणव ओङ्कारः । प्रणिधीयते चानेन भगवान् प्रणिधातृभिरिति, प्रणमन्ति वा। अनेनेति, प्रणिधत्ते वा तेन भगवन्तं चेतसीति, धाञो वकारोपजनं कृत्वा । शब्देन हि परोक्षाणामर्थानां मनसि प्रणिधानं मेरुरिन्द्र इति यथा ॥

तस्य चोङ्कारस्य वाच्यः ईश्वरः । अन्वर्थं खल्वपि निर्वचनम् । अवतेः रक्षणाधर्थान्मनिष्टिलोपश्चेति । प्रणिधातॄन् संसारादवतीति, गमयति वा। संसारिणं निर्वाणमिति, निरतिशयं वा प्रीणयति, समाध्याद्यनुग्रहेणावगमयति वॆां परमार्थमित्येवमाद्यर्थानुगतम् सर्वथा तु नेदिष्ठं प्रियं नाम भगवतः ॥


1. सुबालोपनिषत् । 2. श्रीमद्भगवद्भीता 11. अध्यायः 55. श्लोकः ।