पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/123

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

स एष:-

[ सूत्रम् ]

-

(स) पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥

[ भाष्यम् ]

 पूर्व हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थ:1 कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथाऽस्य सर्गस्यादौ प्रकर्षगत्या सिद्व, तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥

[ विवरणम्

 सः यथोत्तरूपः परमेश्वरः पूर्वेषामपि गुरूणाम् अभ्युदयनिःश्रेयससर्वसाधनसाध्यसंबन्धोपदेशिनां गुरुः तेषामपि ज्ञानोपदेशस्य कर्तेत्यर्थः । तदुद्भवत्वात् सर्वज्ञानानाम् । यथा ज्वलनलवणजलधिसमुद्भवाविष्फुलिङ्गलवणकणाः ॥

 तस्य चादिविद्वत्तामवोचाम कालेनानवच्छेदादिति । अतीतानागतप्रत्युपादीयमानत्वविशिष्टेन कालेनान्ये गुरबोऽवछिद्यन्ते । स त्वीश्वरः सर्वदा मुक्तेश्वरत्वेन तैरप्यस्मापिरिवानुमेयः ।

 कस्मात् पुनस्तस्य वस्तुत्वे गुरुत्वसामान्ये च सति नावच्छेदकः काल इति चेदाह—यत्रावच्छेदार्थः कालो नोपावर्तत इति । यस्मिन्नीश्वरे विषये अवच्छेदथैः प्रस्थादिवत् परिच्छेदकरः नोपावर्तते न परिच्छेदकत्वेनेश्वरं विषयीकरोति सर्वपरिणामवस्त्ववच्छेदकरोऽपि सन् ॥

 ननु चेश्वरप्रकृष्टसत्त्वस्य प्रधानकार्यत्वात् , प्रधानकार्यस्य च कालावच्छेद्यत्वात् , कस्मात्तत्सत्त्वं नावच्छिद्यते पुरुषस्वरूपं हि सर्वेषामेव कालानवच्छेद्य(मिति नाशङ्कनीय)मपरिणामित्वात् पुरुषस्य ॥

 अथ मन्येथाः---तन्त्रान्तरप्रसिद्धेश्वरवत् सत्त्वनिरपेक्ष ईश्वर इतितदयुक्तम्-प्रकृष्टसत्वेपादानाभ्युपगमात् ॥

 अथापि मन्वीथाः--ईश्वरसत्त्वात् प्रवृत्तमेव कार्यमवच्छिनत्ति काले नेश्वरसत्त्वमिति---तदप्ययुक्तम्--व्यक्तस्य परिच्छेद्यत्वात् । व्यक्तं चेश्वरसत्त्वम् |

 1. अयं विवरणानुसारी भाष्यपाठ: । इदानीन्तनमुद्रितग्रन्थस्थ: वाचस्पति , सम्मतश्च पाठस्तु यत्रावच्छेदार्थेन इति ।