पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/121

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यमू ]

    सामान्यमात्रेोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । तस्य संज्ञादिविशषप्रतिपत्तिरागमतः पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा चोक्तस्आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्यात् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥ २५ ॥

[ विवरणम् ]

    अभिलषति हि कश्चित् बुद्धान्तरं वशीकर्तुम् , तद्विषयं च व्याप्तुम् । अनियतत्वादिच्छायाः । बुद्धान्तरावशीकरणे च। सर्ववशित्र्व ही(नी)येत ॥

    अथ चेदुच्येत, बुद्धान्तरस्याननुग्राह्मत्वाद्रागाद्यभावाच तद्विषयव्याप्तावनभिलाष इति-अत्रोच्यते-यथैव प्रासबुद्धत्वस्य कंचित्कालमवस्थानमभिलाषपूर्वकन्, तथा बुद्धान्तरकालावस्थानाभिलाषेणावश्यं भवितव्यम् ।

    अनुआह्यप्राण्यन्तरभावाच्च कालान्तरावस्थानाभिलाषेण युक्त भवितुम् । न च भविष्यता बुद्धेन सर्वे प्राणभृतोऽनुग्रहीष्यन्ते ॥

    बुद्धत्वस्य च दुःखाद्यात्मकत्वेऽपि प्राण्यनुग्रहार्थत्वाद्बुद्धस्थितेः कालान्तरावस्थानेच्छया भवितव्यमेव । सिद्धेश्व प्रागविद्यादिपरामशतू, बुद्धस्वरूपस्य च दुःखशून्याद्यात्मकत्वस्य तैरभ्युपेतत्वातू, बुद्धार्षभाद्यन्यतीर्थ करणात्[करात्]निरतिशयशक्तिज्ञानैश्चर्यानुपपत्तिः ||

    कालानवच्छेदातु नैते दोषा अस्मदीश्वरे क्रमन्ते । शक्तिज्ञानैश्वर्याणां तु निरवधिकत्वानुमानात् सातिशयत्वानवस्थितत्वादिदोषः नात्माकाशादीनामिवातिशङ्कर्नायः ॥

    तथा घ दर्शयति--सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानम् इति । निरतिशयशक्तिज्ञानैश्चर्येयुक्तपुरुषविशेषसत्त्वसामान्यमात्रोपसंहारे कृतोपक्षयं कृत उपक्षयो यस्यानुमानस्य तत्कृतोपक्षयं सातिशयत्वादिति । तदुक्तमनुमाने--यत्र प्राप्तिस्तत्र गतिमात्रमिति । तस्मान्नेश्वरसंज्ञागुणादिविशेषाणू सतामपि प्रतिपादने समर्थम् । सामान्यमात्रोपसंहारपरत्वात ॥