पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/115

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
पातञ्जलयोगसूत्रभाष्यविवरणे


 ननु चेश्वरः सर्वज्ञो न भवतीत्यत्रापि बुद्धिमात्रं प्राप्यमाणं प्रतिषिय्यते, न व्कचिदपि प्राप्नुवद्वस्तु (न) प्रतिषेद्धुं शक्यते प्रतिहस्तिनेव हस्ती । यदि च नञा वस्तु निराकरिष्यते, नञ्मात्रेणैश्वरवादिपक्षत्वमपि[पक्षोऽपि]निराकरिष्यते, (अतः) तस्मादिहापि बुद्धिमात्रप्रतिषेध इति नाभ्युपगतप्रतिषेधः प्रतिज्ञादोषः ॥

 सत्यमेवम् । किं त्वस्ति विशेषः । प्रमाणसिद्धवस्तुविषया बुद्धिर्वस्त्वन्तरे कालविशेषे वा प्रतिषिध्यते वस्तुसामान्यात् प्राप्नुवती यथा घटो नास्तीति । कचिद्विनाप्यर्थेन बुद्धिरेव शब्दप्रत्युपनीतसन्निधाना कल्पितवस्त्वन्तरा प्रतिषिध्यते । यथा वन्ध्यासुती नास्तीति ॥

 यत्र तु प्रमाणान्तरीसद्धसद्वस्तुप्रतिषेधस्तत्रापि[स्ति]अभ्युपगतार्थप्रतिषेधदोषः । यथा ईश्वरशब्दार्थः सर्वज्ञो न भवतीति । ईश्वरसर्वज्ञशब्दयोरभिवर्धमानेश्वरसर्वज्ञव्यक्त्यनुगतसामान्यवचनत्वेन लिङ्गेन निरवधिकेश्वरसर्वज्ञसत्तावद्योतित्वं सिद्धमेव । महद्वहुसर्वानन्तपरिमाणादिशब्दवत् ।

 यथैवैते महदादिशब्दाः प्रसिद्धसातिशयमहदाद्यनुगतसामान्यार्थाभिधायिनः सन्तो निरवधिकमहद्वहुसर्वानन्तपरिमाणव्यक्तीनामस्तित्वावद्योतनलिङ्गा भवन्ति । महदादिसामान्यानां सतिशयव्यक्त्यनुगतानां निरवधिकमहोदादिव्यक्तिव्यापन (रव्याक्षीण)शक्तित्वात् । न हि सन्तं व्याप्यमर्थं तद्वद्ध्यापकः सन्नर्थो न व्याप्नोतीति । निरवधिकातु परो व्याप्यो नास्तीति व्यापकस्य सामान्यस्य क्षयः व्याप्यविषयत्वेनैव प्रसिद्धत्वात्तत्र । तस्मात् प्रमाणसिद्धत्वादीश्वरसर्वज्ञशब्दाथैयोरभावं साधयतोऽभ्युपगतार्थप्रतिषेध एवेति दुष्टा प्रतिज्ञा ।

 न चेश्वरसर्वज्ञशब्दयोरतदर्थवमन्यार्थत्वं वा कर्तुं [वक्तुं] शक्यते । तथा शक्तिज्ञानैश्वर्याणां प्रतिपुरुरुषं समुच्चितानां सातिशयानां निरवधिकं तत्वं अतः[नानुन्मत्तःjप्रतिषेद्धुमुत्सहेतेत्यनुमानविरोधित्वं प्रतिज्ञायाः ॥

 किं चान्यत्- परि[पर]कल्पितस्येश्वरस्य प्रतिषेधं कुर्वन्तः प्रल्यक्षपरचित्तानिष्टाः प्राप्नुवन्ति ! परवाक्यादिति चेन्न -- सातिशयत्वादिसर्वज्ञसाधकलिङ्गप्रतिपादकवदविशिष्टत्वात् परवाक्यस्य । तादृशवाक्यार्थप्रतिषेधे चाभ्युपगतप्रतिषेधः, पूर्ववदेवानुमानविरोधश्च ॥

 किं च--प्रमेयत्वादिहेतूनामपि असिद्धत्वम् । कुतः ? अस्माभिर्निरतिशयज्ञानैश्वर्यविशिष्टत्वस्याभ्युपगतत्वात् । अथ स्वयमपि तादृशमभ्युपगच्छेत्तदा। सर्वज्ञसिद्धिः, अभ्युपगतत्वात् ॥