पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/114

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
समाधिपादः प्रथमः

  अथ प्रसिद्धार्थयोरीश्वरसवैज्ञशब्दयोर्निरवधिकेश्वरसर्वज्ञत्वाभ्यामप्रसिद्धाभ्यां गगनस्येव कुसुमैः संबन्धः कैश्चित् कल्पितः, स प्रतिषिध्येत---तथाऽप्यभ्युपेतार्थप्रतिषेधात् स्ववचनविरोधिन्येव प्रतिज्ञा स्यात् । सातिशयनिरतिशयानेकेश्वरसर्वज्ञव्यक्तिमत्सामान्ययोरीश्वरसर्वज्ञशब्दार्थत्वेनाभ्युपगमात्।

  प्रसिद्धं हि लोके ईश्वरसर्वज्ञशब्दयोरुत्कर्षापकर्षयुक्तानेकव्यक्तिविषयबुद्धयुत्पादकत्वम् । न हि ग्रामाधिपतिरीश्वर इति द्वित्रिग्रामंविषयाधिपतय उत्तरोत्तरेश्वरा न भवन्ति । यो वा कुटुम्बाधिपतिरीश्वरो न भवति स्रर्वैश्वासावर्थवानीश्वरशब्दः ।

  तथा वैयाकरणः सर्वज्ञ इत्युक्ते नाधिकविज्ञानयुक्तो न भवति । निरवधिकी सावधिकौ वेश्वरसर्वज्ञावीश्वरसर्वज्ञशब्दयोरर्थावभ्युपगम्येयाताम् । अतस्तत्प्रतिषेधादभ्युपगमविरोधिनी प्रतिज्ञा स्यात्, आत्माकाशादीनां महत्त्वस्य महच्छब्दार्थत्वप्रतिषेधवत् ॥

  अथेश्वरसर्वज्ञौ निरवधिकौ न स्त:, अनुपलभ्यमानत्वात्, अनीश्वरद्वितीयशिरोवदित्युच्येत, तथाऽपि शब्दार्थाभ्युपगमादभ्युपगमाविरोधिनी प्रतिज्ञा ॥

 सातिशयत्वादिाभिरैश्वर्यसर्वज्ञस्वबीजादिलिङ्गैर्निरवधिकेश्वरसवज्ञत्वयोरुपलभ्यमानत्वन्निरवधिकपरिमाणत्ववदित्यसिद्विरनुपलब्धे:।।

 अथ अविशेष्यैवेश्वरशब्दार्थः सर्वज्ञो न भवतीत्युच्येत वस्तुत्वादिहेतुभिरस्मदादिवदिति, तदा सर्वप्रमाणविरोधिनी प्रतिज्ञा स्यात् । प्रसिद्धेश्वरशब्दार्थस्यप्राकृतसर्वज्ञत्वस्य सर्वप्रमाणसिद्धत्वात् । यथा ईश्वरशब्दार्थः [सर्वज्ञो न भवति।] प्रमेयत्वादिभिर्हेतुभिर्घटादिवदित्युक्ते यत् ब्रूयात्तदेवाहं वक्ष्यामि |

 इह सवैज्ञशून्यं जगत् । कालो वा देिश आकाश वा प्राणिमद्देशो वा प्राणिनो वा सर्वे सर्वज्ञशून्याः । प्रमाणानि वा सर्वाणि सर्वज्ञाविषयाणि । प्रमातारो वा सर्वज्ञस्याप्रतिपत्तार:, इत्येवंजातीयासु प्रतिज्ञासु निरवधिकेश्वरे सर्वज्ञै वा प्रतिषिध्यमाने, प्रसिद्धेश्वरसर्वज्ञशब्दार्थाभ्युपगमविरोधाः प्रतिज्ञादोषा वचनीयाः॥

 ननु च वन्ध्यासुतो नास्तीति, तच्छून्यं जगत् कालो वेति, प्रतिज्ञायमाने यथेक्तप्रतिज्ञादोषप्राप्तिर्भवेत्--नैष दोषः---वन्ध्यासुतसत्तालक्षणस्य प्रतिषेद्धव्यस्य वाक्यार्थस्येश्वरसर्वज्ञशब्दार्थवदप्रसिद्धत्वात् केवलशब्दप्रापितसन्निधानबुद्धिमात्रप्रतिपन्ने पदार्थ[पदार्थ प्रतिषेध]व्यापारोऽस्तीति वन्ध्यासुतस्तित्वस्य (वा नास्तित्वस्य) नाभ्युपगमोऽस्ति । ततो नाभ्युपगतप्रतिषेधदोषः॥