पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/113

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
पातञ्जलयोगसूत्रभाष्यविवरणे


 अप्रमाणं स्यात् । प्रमाणान्तरसंवादाभावात् , सामान्यतोदृष्टादिवदिति | तस्मान्न सामान्यतोदृष्टस्य प्रमाणत्वं निश्चितबुद्धित्वाद्वाधितुं शक्यम् ।

 किं च---सामान्यतोदृष्टस्य मानत्वमनभ्युपगच्छतः स्वशरीरमरणसम्बन्धलक्षणस्यानुपलब्धपूर्वत्वात् सर्पादिभ्यो भयानुपपत्तिः । व्याधिप्रकाराय चिकित्सादिप्रयोगो न घटेत । मरणशङ्काकारणाभावात्। तथा जन्मनोप्युपलम्भाभावादात्मशरीरस्याङ्जत्वं चिन्त्येत । हानोपादाननियोगाभावश्व स्यातू ॥

 तस्मात् सामान्यतोदृष्टपरिमाणत्वादिसातिशयत्वसामान्यादीश्वरज्ञाननिरवधिकत्वसिद्धिः ।

 किं चान्यत्-ईश्वरसर्वज्ञत्वस्य प्रतिषिद्ध्यमानत्वात् सत्त्वाभ्युपगमः, अ(नुिप)पदार्थस्य प्रतिषेधासम्भवात् ! न हि केवलो नेति (न) प्रयुज्यते । ईश्वरः सर्वज्ञो न भवतीत्युच्यते । तत्र क्वचित् सर्वज्ञत्वमभ्युपगतं भवति ॥

 तद्यथा---शशस्य विषाणं नास्ति, वन्ध्यायाः सुतो नास्ति, कुसुममाकाशस्य नास्तीति कचिद्विद्यमानानामेव विषाणसुतकुसुमादीनां शशादिसंबन्वेन प्रतिषेधः, तद्वदिहापि स्यात् ॥

 किं च-ईश्वरः सर्वज्ञो न भवतीति, ईश्वरशब्दार्थसर्वज्ञत्वसम्बन्धप्रतिषेधादिना ईश्वरादन्यस्य सर्वज्ञत्वाभ्युपगमः । सम्बन्धिनावनभ्युपगम्य सम्बन्धप्रतिषेधो हि न शक्यः कर्तुम् ॥

 स एष युक्तः सम्बन्धः प्रतिषिध्यते, अयुक्तश्चाभ्युपगम्यते ! तत्परिश्रममात्रम् । ईश्वरसर्वज्ञयोः प्रसिद्धपदार्थयोरप्रतिषेधात् । न ह्यनन्तपरिमाणमाकाशं न भवतील्याकाशस्य प्रसिद्धमनन्तपरिमाणत्वं प्रतिषेिध्याप्रसिद्धानन्तपरिमाणत्वेषु घटादिषु तत् व्यवस्थापयितुं युक्तम् ॥

  अथ सन्बन्धिनावेवेश्वरसर्वज्ञत्वे प्रतिषिध्येते, स्ववचनविरोधिनी प्रतिज्ञा स्यात् । ईश्वरसर्वज्ञत्वयोरीश्वरसर्वज्ञशब्दार्थत्वाभ्युपगमात् । न हि भवत्यग्निरग्निशब्दार्थे | न भवतीति ।

 अथाप्रसिद्धपदार्थावीश्वरसर्वज्ञशब्दौ, तथाऽपि तदर्थप्रतिषेधानुपपत्तिः । अप्रसिद्धस्यार्थस्य प्राप्यभावात् । न हि किंचिदप्रसिद्धमेतच्छिखरे मेषकुटुम्बिनीं प्रतिषेद्धुमर्हति । किं च शब्दोपादानानर्थक्यं च । अप्रसिद्धपदार्थत्वात् ।