पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/112

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
समाधिपादः प्रथमः


  अथ चेद्ब्रूयात्-सर्वज्ञाभावप्रतिपादिभिरस्मदनुमानैरितरप्रतिज्ञानां विरोध इतेि-अत्रोच्यते

 नैतान्यनुमानानि । कथम् ? प्रथमं तावत् प्रतिज्ञैव द्ऱुष्टा । यदि तावदीश्वरशब्दार्थः सर्व न भवतीति युष्मदभिप्रेत ईश्वर उच्येत, तथा च सिद्धसाध्यता स्यात् ।

 अथास्मदभिप्रेतः, तथापि युष्माकमसिद्धविशेष्यता भवेत् ॥ अथेश्वरत्वस्यासर्वज्ञत्वमुच्यते, तथापि सिर्द्ध साध्यते ।

 तथैवाभ्युपगमविरोधोऽपि । कथम् ? ऐश्वर्यसर्वज्ञबीजत्वयोर्विवर्धमानत्वात् काष्ठाप्राति: परिमाणवदेवाभ्युपगमनीया । तथा काष्ठाप्राप्तैश्चर्यसर्वेज्ञत्ववाचिनावपीश्वरसर्वज्ञशब्दावेषितव्यौ । काष्ठाप्रप्तिश्व निरवधिकत्वम् ।यथा परिमाणादीनामात्माकाशाद्यनन्तपरिमाणान्तत्वम् । तथा चानुमानाभ्युपगमस्ववचनविरोधाः स्युः ॥

 किञ्चान्यत्-काष्ठाप्रातेश्वरत्वस्य च शब्दार्थस्य परिल्यागे शब्दार्थवादः प्राप्नोति । न हि शब्दः परित्यक्ताभिधेयैकदेश उच्चरितः|

 अथ परिमाणादेरपि निरवधिकनिष्ठत्वं नेष्यते---सिद्धान्तविरोधः । आत्माकाशादीनां हि सर्वगतत्वाभाव, मध्यमपरिमाणत्वानिल्यत्वादिदेषप्रसङ्गश्च । अथाप्यात्मनः सर्वत्र कार्यदर्शनात् सवैगतत्वम्, तत्रापि शकुन्याद्यात्मनां मनुष्यगोचराकाशादिगतत्वं सामान्यतोदृष्टादेवानुमानात् स्यात् । तथा चेहापि सामान्यतोदृष्टानुमानत्वं केन वार्यते ।

 अथानुमानविरोधान्नावधार्यत इति चेत्--आत्मादीनामपि प्रमेयत्ववस्तुत्वादिभ्यः पृथिव्यादिवदित्यनुमानविरोधोद्भावना शक्यते [कर्तुम् ! वक्तुम् । न च तावताऽत्रानुमानविरोधित्वम्, अनुमानाभावप्रसङ्गात् ।

 तथा अनुमानाभाव इष्यत इति चेत्---प्रत्यक्षेऽप्यनाश्वासः स्यात् । अथ निश्चीयमानबुद्ध्युत्पतेः प्रत्यक्षप्रमाणत्वम्, अनुमानस्यापि तर्हि निश्चितबुद्धिसमुद्धवादस्तु प्रामाण्यम् । अथ दृष्टसम्बन्धधूमादिविषयमेवानुमानमिति चेत्-तत्राप्यनुमानाभाव एव-अनग्निः धूमवान् प्रेदशः, प्रत्यक्षानुपलभ्यमानाग्निसम्बन्धे सति प्रदेशत्वात्, अग्निशून्योपलभ्यमानप्रदेशवदिति ॥

 अथ प्रमाणान्तरसंवादददृष्टसम्बन्धविषयेऽनुमानस्यानुमानत्वमुच्यते, प्रत्यक्षमपि प्रमाणान्तरसंवादात् प्रमाणं भवेत्, प्रमाणत्वात्, अनुमानवदेव ।