संसाररहितः सर्वज्ञः, अज्ञानाभावात्, मुक्तात्मवत् । क्लेशादिरहित ईश्वरः,अप्रतिबन्धज्ञानत्वात्, सिद्धयोगिवत् ॥
एतेन क्लेशादिप्रतिबन्धाज्ञानरहितत्वेन चक्षुरादीन्द्रियग्रामनिरपेक्षसर्वविषयज्ञानत्वं सिद्धम्। सर्वार्थग्रहणसमर्थस्य परमेश्वरचित्तस्य सर्वव्यापिनो युगपत्सर्वविषययोगित्वात् । एवं सति समस्तवस्तुग्रहणाभावे कारणाभा(वानु)वोपपतिः |
नापि मूर्तिमत्प्रतिबन्धोऽप्याकाशवदेव सर्वविषययोगिनोऽपि चित्तस्य विषयानवस्थानादाविर्भावतिरोभावस्मृतिसंकल्पानवस्थितत्वोपपत्तिः । विषयाकारतया वृत्तिलाभादर्कप्रभावत् ॥
न हि क्लेशाद्यावरणावच्छन्नं चित्तसत्वम् तस्याधर्मादियोगात् । सर्वगतस्य सर्वार्थस्यापि सत्वस्याधर्मादिप्रतिबन्धकनिरुद्धस्वकीयप्रवृत्तिमार्गत्वादिन्द्रियादिद्वारापेक्षित्वमुपपद्यते । यथा अपवरकाद्यावरणावृतः प्रदीपस्तदावरणगतच्छिद्रद्वारेण बहिः प्रकाशयति । स एव तु प्रदीपः प्रभिन्नापवरकावरणः सन्ननपेक्ष्य तत्तच्छिद्रमार्गं समन्ततः प्रकाशयति॥
तथैवेश्वरसत्वं क्लेशाद्यावरणयोगाभावादसति विषयविशेषानिरोधिकारणे युगपदशेषार्थग्रहणम् । ततश्च स्वातिलङ्घनानतिलङ्घनादिदोषाभावः ॥ सर्वस्य विषयत्वात् सर्वमेकेश्वरं जगत्, परिपालकापेक्षस्थानाद्यनेकवस्तुविशेषत्वात्, प्रसिद्धैवं भूतैकराज्यवत् ॥
तथा, नियतस्थिितिहेत्वनकोपकरणवत्त्वात्, अन्योन्याभिभवनीयप्रभूततरदुर्गयुक्तानेकदेशत्वात्, अभङ्गुरव्यवस्थशरीरभेदवत्त्वाच्च, प्रतीतैवंविधैकराज्यवत् ॥
अनेककर्तृभोक्तृक्रियासाधनफलसंबन्धविशेषज्ञानवदुपदिष्टानि वर्णाश्रमाद्यनुष्ठानानि, फलार्थिभिः प्रत्यवायभीरुभिस्तैश्चानुष्ठीयमानत्वात्, भैषज्यरसायनाद्यनुष्ठान्नवत् ।
तथा तदुपदेशाः, परार्थत्वात्, उपदेशात्वात्, विद्वच्छूद्धेयत्वात्, उपदेशाद्यते मनुष्यानवगम्यार्थत्वाच्च, भैषज्याद्युपदेशवत् ||
शरीरेन्द्रियाणि सर्वतत्प्रयोजनविदेकनिमित्तकारणाभिनिर्वर्तितानि, नियतक्रियास्थितिहेतुसाधनवत्त्वात्, प्रासादगृहदारुयन्त्रादिवत् |