पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/109

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
समाधिपादः प्रथमः


 अनेकप्राणभाक्प्रकाशादिसामर्थ्यज्ञानवता एकेन निर्वर्तितः सविता, प्रकाशात्मकत्वात् प्रदीपादिवत् ।

 नियतकालमादित्योदयास्तमयादिसञ्चरणम् एतत्प्रयोजनज्ञानवदेकप्रयुक्तं, प्रतिनियतकालत्वात्, कृष्यादिवत् ॥


 बुद्धिमदेकेश्वरप्रयुक्ता सूर्यग्रहचन्द्रनक्षत्रादिप्रवृत्तिः, प्रवृत्तेर्दुःखात्मकत्वे सति नियतसमयत्वात्, धर्मज्ञशिष्यभृत्यादिप्रवृत्तिवत् ॥


 चन्द्रमसो वृद्धिक्षयौ तिथ्यादिकालज्ञानवतैकेन प्रयुतौ, कालपरिच्छेदकत्वात्, घटिका[हरा,)दिवत् |


 कालपरिच्छेदज्ञानवतैकेन निर्वर्तितश्वन्द्रमा:, वृद्धिक्षययुक्तत्वात्, घटिकादिवदेव ।


 बुद्धिमदेकस्वामिकं जगत्, अन्योन्यविरुद्धसंहतानेकप्राणिनायकाधिष्ठितबहुमण्डलत्वात्, इत्थंजातीयकैकराज्यवत् ।


 सर्वमेतत्साधनसाध्यव्यापारावस्थं प्रत्यक्षं कस्यचिदेकस्य, अवान्तरविरोधानुग्रहवत्तयैकप्रयोजनत्वात्, सांग्रामवस्तुवत् ॥


 संहतत्वात्, कुलालादिवस्तुवत् । सैव प्रतिज्ञा ॥


 युमपच्च सर्व प्रत्यक्षमेक(त)त्य, अनेकत्वे (व)सत्यन्योन्यसंबन्धात्, प्रसिद्धसम्बन्धानेकार्थवत् ।


 अग्निहोत्रादिसाधनसाधनीये कस्यचित्प्रत्यक्षे, साध्यसाधनरूपत्वात् , भुजित्तृप्तिवत् ॥


 सर्वा शक्तयः कस्यचित् प्रत्यक्षाः, वस्तुत्वात्, घटादिवत् |


 अ[वा]न्तरप्रतिबन्धाभावे सर्व वस्तुजातं नैरन्तर्येण कस्यचित् प्रत्यक्षं, शब्दादिमत्त्वेन सम्बन्धात्, द्रावीयसीमिव शष्कुलीं भक्षयतः शब्दादयः ।


 स्वतन्त्रतया केनचिदेकेन सर्वं प्रत्यक्षत उपलभ्यते, ज्ञेयत्वेनाभिमतत्वात्, नाट्यवस्तुवत् ।


 अप्रतिबन्धेन कस्यचित् प्रत्यक्षोपलभ्यं सर्वम्, अनेक(सत्वे)त्वे सत्यन्योन्यसंबन्धात्, नाट्यसंबन्धिनर्तकादिवत् ॥