पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/105

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
समाधिपादः प्रथमः


[ भाष्यम् ]

शास्त्रं पुनः किन्निमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् ।

[ विवरणम् ]

 तत्र प्रतिज्ञाविशुद्धयर्थं प्रश्नपूर्वमुपक्रमते--स किं सनिमित्त अहोस्विन्निर्निमित्त इति । निमित्तशब्दः_कारणपर्यायः। स किं सकारण आहोस्विन्निष्कारण इति । किञ्चातः ? यदि तावत् सकारणस्तदा सदैवेश्वर इत्ययुक्तम् , अनित्यत्वात् ! अथ निष्कारणः, तथा चोत्कर्षस्य कार्यत्वादसत्त्वप्रसङ्गः । न हि निष्कारणं कार्यं दृश्यते लोके ॥

 अत्रोच्यते-न निष्कारणः शास्त्रनिमित्तत्वात् । शास्रं ज्ञानम् । शास्त्रस्य हेतुत्वात् । यतः सर्वविषयं ज्ञानं नित्यं द्रव्यस्वभावसाध्यसाधनव्यवहितविप्रकृष्टास्पदम् ।

 यद्येवं ज्ञानस्यान्यतोऽधिगमपूर्वत्वात्प्रागनुत्कर्षः प्राप्त इत्यत आह-- शास्त्रं पुनः किंन्निमित्तमिति । यदि स्वाभाविकं ज्ञानं, मत्तोन्मत्तज्ञानवदनुत्कर्षहेतुत्वम् । अथ पुनः सनिमित्तकं, निमित्तात् प्रागनुत्कष इति मन्यते ॥

 न तावन्निर्निमित्तम । यतः प्रकृष्टसत्त्वनिमित्तं प्रकृष्टसत्त्वाश्रयमिति यावत् । अत एव स्वभावज्ञानदोषाभावः ।

 केिञ्च- स्वाभाविकज्ञानत्वेऽपि न मत्तादिज्ञानवदपकर्षहेतुत्वम् । नित्यमुक्तक्लेशादिसत्त्वाश्रयत्वात् । तत्र यथैव ज्ञानसंस्कारस्मृतिप्रबन्धानामन्योन्यनिमित्तनैमित्तिकभावेन बीजाङ्कुरवदनादिसंबन्धः, तथैव शस्त्रप्रकर्षयोरीश्वरचेतसि नित्यप्रवृत्तप्रबन्धरूपेण प्रवर्तमानयोरनाद्यन्तः संबन्धः । तत्रोत्कर्षो ज्ञानस्य कार्येमेव | ज्ञानमपि तस्य कारणमेव ।

 अन्येषां व्याख्यानम्--निमित्तशब्दः प्रमाणवाचीं । तस्य शास्त्रं निमित्तं प्रमाणम् , तेन हि तदुत्कर्षः प्रमीयते | शास्त्रं पुनः किंप्रमाणकम् ? ईश्वरनिर्मलसत्त्वप्रमाणम् । विशुद्धसत्त्वप्रणीतत्वाद्वि शास्त्रस्य प्रामाण्यम् , यथा मन्वादीनाम् | तथा च श्रुतिः-‘यकिंचिन्मनुरभ्यवदत्तद्भेषजम्' इति । यथा च लोके गुरुणाऽभिहितमिति ॥


 1. अन्ये वाचस्पतिमिश्रा: । यद्वा-तेषामपि मार्गप्रदर्शकाः प्राचीना व्याख्यातार: ।।