पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/103

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
समाधिपादः प्रथमः

[ भाष्यम् ]

 प्रणिधानात् भक्तिविशेषादावर्जित ईश्चरः तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतरः समाधिलाभः समाधिफलं च भवति इति ॥ २३ ॥  अथ प्रधानपुरुषव्यातेरिक्तः कोयमीऽश्वरो नामेति ।

[ सूत्रम् ]

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥ २४ ॥

[ भाष्यम् ]

 अविद्यादय: क्लेशाः । कुशलाकुशलानि कर्मीणि । तत्फलं विपाकः । तदनुगुणा वासना आशयाः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः ।

[ विवरणम् ]

दावर्जित इति । अनुग्रहं प्रत्यभिमुखीभावमापादितः तं भक्त्यातिशययोगिनं योगिनम् अभिध्यानमात्रेण परमेश्वरत्वदेव निरायासतया सत्यसंकल्पत्वात् अनुगृह्वाति । तदनुग्रहादपि प्रत्यासन्नतरः समाधिलाभः फलं च इति ।। २३ ॥

 अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वर इति सांख्यशास्रे प्रसिद्धयभावादीश्वरसद्धावे चोपपत्तेिमवश्यमनवगतेश्वरविशेषो वा पृच्छति । तत्र तावत् प्रतिजानीते--क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥

 क्लेशा इति । अविद्यादयः क्लेशयन्तीति क्लेशाः । तत्पूर्वानुष्ठितानि कुशला कुशलानि कर्माणि । कुशलानि चाकुशलानि [च कुशलाकुशलानि] चेत्येकशेषः । कुशलाकुशलानीति कुशलाकुशलविमिश्राणीति यावत् । तत्फलं विपाक: जात्यायुर्भोगलक्षणः । त एव क्लेशादयः आ निर्वाणाच्छेरत इति क्लेशकर्म विपाका आशया: । यदि वा क्लेशादीनां राशयः क्लेशकर्मविपाकाशया: ॥

 ते मनसि वर्तमाना मनोवृतिप्रभवत्वात् पुरुषे व्यपदिश्यन्ते । कस्मात् ? स हि तत्फलस्य भोक्तेति । यथा राजनि जयपराजयौ योधेषु वर्तमानावपदिश्येते तत्फलं राजसंबन्धि इति ।