पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

भाग्यैकलभ्यं सौभाग्यं वसुदेवस्य संस्मरन् ।
राजानमनुचक्रन्द सर्वोऽपि विधुरो जनः ॥ १२० ॥
जनन्यास्तु सुभद्रायाः सुतशोकाशुशुक्षणिः ।
तथा नितान्तं जज्वाल प्राणानप्यहरद्यथा ॥ १२१॥
न गीतं गीतशालासु न लास्यं लास्यवेश्मनि ।
बभूव शौरिशोकेन न च तूर्यध्वनिः क्वचित् ॥ १२२ ॥
वसुदेवशुचा देवो न दिदेव शरद्यपि ।
वसन्ते च शरद्वेश्मन्यरोदीद्दीनलोचनः ॥ १२३ ॥
एवं वर्षाणि भूयांसि भूशक्रस्यातिचक्रमुः।
एत्यान्यदा निमित्तज्ञो बभाषे क्रोष्टुकिर्नृपम् ॥ १२४ ॥
दृष्टादृष्टनिमित्तेन भृशं निश्चिन्वता मया ।
यज्जीवति प्रफुल्लश्रीर्वसुदेवो निरामयः ॥ १२५ ॥
एवं तद्गिर्रमाकर्ण्य कर्णपीयूषसारणिम् ।
भूयोऽपि राजकार्येषु किंचित्रावर्तत प्रभुः ॥ १२६ ।।
स्वयंवरेऽथ रोहिण्याः सुताया रुधिराह्वयः ।
अरिष्टनगरस्वामी स्वामिनं नः समाह्वयत् ॥ १२७ ॥
देवोऽपि बन्धुभिः सार्धं महर्षिकपरिच्छदः ।
शौरिशोकविनोदार्थं न कन्याथै पुनर्ययौ ॥ १२८ ॥
जरासन्धमहाराजप्रमुखे राजमण्डले ।
आसीने मञ्चमत्युच्चमध्युवास नृवासवः ॥ १२९ ।।
मन्मथाङ्कुररोहिण्या रोहिण्याथ कटाक्षिताः ।
भूपाः स्वं रोचयांचक्रुः स्फुटिताननचेष्टिताः ।। १३० ।।
परं धात्रीपतिर्धात्र्या संकीर्तितगुणश्रियाम् ।
तेषामेकोऽपि रोहिण्या रोचते स्म न कश्चन ॥ १३१ ॥
राज्ञोऽवज्ञाय सर्वांस्तानेकं पाटहिकं दृशा ।
ईक्षांबभूव साकाङ्क्षं सा मृगाक्षी मुहुर्मुहुः ।। १३२ ॥