पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

वत्स स्वच्छन्दचर्याभिरभूरत्यन्तदुर्बलः ।
कुरु सर्वकलाभ्यासं सौधमध्यस्थ एव तत् ॥ १० ॥
कुर्वन्नुर्वीपतेराज्ञामेवं राजानुजोऽन्यदा ।
एकामपश्यदायान्तीं दासीमन्तःपुरोदरात् ॥ १०८ ॥
विलेपनं करात्तस्याः सोऽलुम्पन्नर्मलीलया ।
ततः सकोपं साक्षेपं वसुदेवं जगाद सा ॥ १०९ ॥
कुमारमेदुरामोदमङ्गरागं किमाच्छिदः ।
देवाय शिवया देव्या प्रेमतः प्रहितो ह्यसौ ॥११० ॥
सौधमध्ये निरुद्धोऽसि स्थाम्ना देवेन धीमता ।
विशत्यविनयादेव पञ्जरे सिंहशावकः ॥ १११ ॥
साथ पृष्टा कुमारेण निजसंरोधकारणम् ।
तत्पुरे पौरवृत्तान्तं सर्वं मूलादचीकथत् ॥ ११२ ॥
ततो म्लानमुखाजश्रीर्व्यतीत्य कथमप्यहः ।
वसुदेवो विभावर्यामेकाक्येव क्वचिद्ययौ ॥ ११३ ॥
प्रातरन्वेषणे पूर्वप्रतोलीद्वारि दूरतः ।
दग्धमानुषसंस्थानो भस्मराशिरदृश्यत ॥ ११४ ॥
प्रतोल्यां लम्बमानं च पत्रमेकमुदैक्षत ।
शुचोच्चैर्वाचयामास समुद्रविजयः स्वयम् ॥ ११५ ॥
पुंसो यस्य गुरून्यावदुपालम्भः प्रवर्तते ।
तस्य श्रेयस्करो मृत्युर्जीवितं तु त्रपाकरम् ।। ११६ ॥
ततः शौरिः कृतोद्वेगो गुरूणामगुणैकभूः ।
विरचय्य चितामत्र कृशानुमविशत्स्वयम् ॥ ११७ ॥
तदेवं वाचयत्नेव देवो मूर्छामुपागमत् ।
ज्ञात्वा विपन्न सोदर्यं को हि धैर्यं न मुञ्चति ॥ ११८ ॥
व्यलपञ्चाप्तचैतन्यो हा वत्स गुरुवत्सल ।
दत्त्वा नः शोकमस्तोकमगमः कामिमां दशाम् ॥ ११९ ॥