पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५४ काव्यमाला।

अथ सिंहस्थोऽप्युच्चैरुत्खातः प्रतिरोपितः।
नत्वा प्रसादयामास तं फलैः कलभो यथा ॥ ९४ ॥
जरासन्धेन सत्कृत्य विसृष्टाः स्वपुरं प्रति ।
जग्मुस्तिग्मेन वेगेन समुद्रविजयादयः ॥ ९५ ॥
सत्यसन्धजरासन्धसमर्पितबलो बली ।
कंसस्तु मथुरां गत्वा तातं निष्करुणोऽरुधत् ॥ ९६ ॥
सेनाभिरुग्रसेनोऽपि तेन सार्धमयुध्यत ।
अखिद्यत जयश्रीस्तु तयोर्युद्धे गतागतैः ॥ ९७ ॥ .
कथंचनापि निर्जित्य कंसः क्रूरशिरोमणिः ।
साक्षेपचेताश्चिक्षेप पितर काष्ठपञ्जरे ।। ९८ ॥
दृढं निगडबद्धोऽपि ज्ञाते तस्मिन्निजात्मजे ।
सुतेन विजितोऽस्मीति पिता तु मुदमावहत् ॥ ९९ ॥
सुभद्रवणिजं सौर्यपुरादानाय्य सोऽजसा ।
कृतज्ञमानी संपूज्य पर्युपास्ते स्म तातवत् ॥ १०० ॥
इतश्च केलिशैलेषु प्रासादेषु वनेष्वपि ।
शौरिः शौर्यपुरेऽत्यन्तं विजहार यदृच्छया ॥ १०१॥
वसुदेवः सुनेत्राणां नेत्राणाममृताञ्जनम् ।
मनसस्तु सदा ध्येयो मन्त्रोऽभूञ्चतुरक्षरः ॥ १०२ ॥
समुद्रविजयः पौरैरेत्य विज्ञापितोऽन्यदा ।
देव त्वयापि नाथेन वयमत्यन्तदुःखिताः ॥ १०३ ॥
कन्दर्पस्य सरूपेण रूपेणाक्षिप्तचेतसः ।
शौरिमेवानुधावन्ति त्यक्त्वा वेश्मानि नः स्त्रियः ॥ १०४ ॥
अनुगामुकतां शौरेस्तासु प्राप्तासु सर्वतः ।
कलत्रकर्तृका कापि शुश्रूषा नास्ति नः प्रभो ।। १०५ ॥
अथ पृथ्वीपतिः प्रीत्या सान्त्वयित्वा विसृज्य तान् ।
वसुदेवं समाहूय रहस्येवं समादिशत् ॥ १०६ ॥