पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

तस्य स्तम्बं निरालम्बं कीलैः कीलितमायसैः ।
एकं नरं निरुच्छ्रासं दुःखितं सममैक्षत ॥ ४७९ ॥
स्मरसोदरमाकारं तस्यालोक्य क्षितीश्वरः ।
आचकर्ष बलोत्कर्षाल्लीलया लोहकीलकान् ॥ ४८० ॥
छिन्नद्रुपातमपतत्सोऽतिमूर्छाविसंस्थुलः ।
भूपतिर्लम्भयामास चेतनां चन्दनैश्च तम् ॥ ४८१ ॥
स पुमान्मुद्रिकान्यस्तमणिस्वपनवारिभिः ।
सेचं सेचं व्रणश्रेणीं प्रगुणीकृतवान्वयम् ॥ ४८२ ॥
अथोचे पृथिवीनाथः पृथुना प्रश्रयेण तम् ।
ब्रूहि कोऽसि महाभाग कथं चेयं दशा तव ॥ ४८३ ॥
स जगाद जगद्वन्धो वैताब्यगिरिमण्डनस् ।
अस्त्यानकास्ति(?) मत्पौरं पुरं हेमपुराभिधम् ॥ ४८४ ॥
तस्य स्वामी विशालाक्षनामा विद्याधरोऽस्म्यहम् ।
भ्रमन्स्वैरविहारेण महीमिह समागमम् ॥ ४८५ ॥
वनस्यास्य श्रियं पश्यन्नुपेत्य रिपुभिश्छलात् ।
बद्धोऽस्मि करिणीव्यग्रः करीव करिबन्धकैः ॥ ४८६ ।।
यच्छन्प्राणानतुच्छेच्छं किं तन्मे यस्य नेशिषे ।
तद्ब्रूह्ययं जनः किं ते प्रियं,कर्तुं प्रवर्तताम् ॥ ४८७ ॥
अवदन्नृपतिर्भ्रातः किं ममातः परं प्रियम् ।
यस्त्वं विद्याधरेन्द्रत्वं कुशली पालयिष्यसि ॥ ४८८ ॥
पुनरूचे विशालाक्षः सशल्य इव लक्ष्यसे ।
भद्र त्वमपि तद्ब्रूहि पुरो मम मनीषितम् ॥ ४८९ ॥
अथाकथयदुर्वीशः सर्वमाकूतमात्मनः ।
आवेदिता हि सुहृदं फलन्त्येव मनोरथाः ॥ ४९० ॥
ततः प्राह विशालाक्षी नृत्यत्प्रीतिमना नृपम् ।
मम वंशक्रमायाता मुद्रिका गृह्यतामियम् ॥ ४९१ ॥