पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।
इति ज्येष्ठात्मजगिरा मामाहूय महीपतिः।
आदिशत्सर्वदेशेषु यथा कोरक गम्यताम् ॥ ४४०॥
वरः कश्चिद्वरेण्यश्रीर्यस्तुभ्यमवभासते।
उपागत्य तमस्माकं वेगेनैव निवेदय ॥ ४४१॥
भूपालो दुहितुस्तस्या रूपं चित्रपटे ततः।
लेशेनालिख्य देशेषु क्रमाद्भ्राम्यन्निहागमम् ॥ ४४२ ॥
असौ रूपेण कन्दर्पदर्पहा पाण्डुभूपतिः ।
मया दृष्टश्च हृष्टश्च जातोऽसीप्सितलाभतः॥ ४४३ ॥
आर्य शौर्यपुरेशस्य सुता तत्पाण्डुभूभुजा ।
युज्यतामनुरूपेण द्विरेफेणेव मालती ॥ ४४४ ॥
किं च काञ्चनवर्णास्याः कनिष्ठास्ति सहोदरा।
नाम्ना माद्रीति रूपेण यस्याः श्रीरेव सोदरा ॥ ४४५॥
विख्यातो दमघोषाख्यस्तां वृणीते स चेदिपः ।
ज्यायस्यां किंत्वनूढायामियं नोद्वाहमर्हति ॥ ४४६ ।।
तदार्य सर्वकार्येषु तिष्ठते त्वयि निर्णयः ।
एते सुखिन्यौ कन्ये स्तामास्तामन्यद्विकल्पना ॥ ४४७ ॥
इत्थं तेनार्थिता भीष्मस्तत्सर्वं प्रत्यपद्यत ।
खयं वाञ्छितमागच्छत्को निराकुरुते कृती॥ ४४८॥
अथोत्पाद्य नवं रागं सा मृगाक्षी मनोभुवा ।
आश्लिष्यत पटात्तस्मात्पाण्डुश्चित्रपटे तदा ।। ४४९ ॥
स मध्येमनसं कुन्तीमश्रान्तं धारयन्नपि ।
बहिरालोकयामास स्थाने स्थाने पुर:स्थिताम् ॥ ४५० ॥
कदा कुन्तीमुखाम्भोजे मन्नेत्रभ्रमरद्वयी।
पाता लावण्यकि़ंजल्कमित्यासीदुत्सुको नृपः ॥ ४५१॥
पृष्ट्वा सत्यवती शौर्यपुरे कोरकसंयुतम् ।
कार्यस्थैर्याय भीष्मः स्वं प्रेषयामास पूरुषम् ॥ ४५२ ।।