पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२२ काव्यमाला।

राजानो राजपुत्राश्च शतशः सन्त्युपस्थिताः ।
आपतन्त्यधुना केचिदापतिप्यन्ति केचन ॥ २७१ ॥
ततः कलाकलापेन रूपेण वयसापि च ।
योग्या विचित्रवीर्यस्य सुतास्ताः काशिभूपतेः ॥ २७२ ॥
गाङ्गेयस्तद्वचः श्रुत्वा तत्त्वदृष्टिरतर्कयत् ।
किमहो काशिराजेन नानुजो मे निमन्त्रितः ॥ २७३ ॥
न गन्तव्यमनाहूतैर्महीपालैः स्वयंवरे ।
अतो गत्वाहमेकैकः करिष्ये सर्वमीप्सितम् ॥ २७४ ॥
एवं विमृश्य गाङ्गेयो रथेन प्रस्थितो द्रुतम् ।
जवनैर्वाजिभिर्वेगादगमच्च स्वयंवरे ॥ २७५ ॥
तत्र सिंहासनासीनानुच्चैर्मञ्चेषु भूपतीन् ।
सोऽपश्यद्धासुराकल्पान्विमानेष्वमरानिव ॥ २७६ ।।
उरोलोलन्मनोहारिहारास्तिस्रोऽपि बालिकाः ।
दृष्ट्वा विचित्रवीर्यार्थे स हर्तुमकरोन्मनः ॥ २७७ ॥
प्रत्येकमात्मनः कन्यालाभं संभाव्य भूपतीन् ।
तास्तान्विवृण्वतो भावान्हसति स स मानसे ॥ २७८ ॥
अथ तासां पुरो धात्र्या कीर्त्यमानेषु राजसु ।
रथात्तार्क्ष्य इवोत्कालः स रङ्गाङ्गणमाविशत् ॥ २७९ ॥
स तं स्वयंवरं राजनक्रचक्रसमाकुलम् ।
बाढं विलोडयामास पयोधिमिव लीलया ।। २८० ॥
आच्छिद्य कन्यारत्नानि सर्वेषामेव पश्यताम् ।
रथमारोपयामास भीष्मो भीष्मपराक्रमः ॥ २८१ ॥
स्यन्दने भयनिस्पन्दा वेपमानवपुर्लताः ।
सुताश्च काशिराजस्य स्निग्धमुग्धमभाषत ॥ २८२ ।।
वत्साः किमपि मा भैष्ठ नानिष्टं वः करिष्यते ।
भीष्मोऽस्मि शान्तनोः सूनुर्भवतीनां प्रियंकरः ।। २८३ ॥