पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।

अभूत्कश्चित्स भूपानां हृदि चित्राङ्गदोऽगदः ।
नागदो नागदङ्कारः कोऽप्यासाद्य चिकित्सते ॥ २५८॥
तेन नैक्षित भीष्मोऽपि संविभागी जये परः ।
अतः स युद्धमेकाकी चक्रे सार्धं विरोधिभिः ।। २५९ ॥
स निर्मलकलासमच्छानाम्येत्य जग्रसे।
नीलाङ्गदेन संग्रामे शीतांशुरिव राहुणा ।। २६० ।।
शिरःशेषोऽपि चेद्वैरी तदा बाधेत राहुवत् ।
उपानीयत भीष्मेण सोऽप्यतो नामशेपताम् ॥ २६१ ॥
अथ राज्यं कनिष्ठाय गरिष्ठो जाह्नवीसुतः ।
ददौ विचित्रवीर्याय बन्धवे बन्धुवत्सलः ॥ २६२ ॥
तं भीष्मचापमाहात्म्यादपचक्रे न कश्चन ।
यूथनायान्तिके केन कलभः परिभूयते ॥ २६३ ॥
चतसृष्वपि विद्यासु गन्ता विद्यासु कौशलम् ।
चक्रे कनीयसो भ्रातुर्भीष्मः सज्ये च धन्वनि ॥ २६४ ॥
अनहंयुतयात्यन्तं भूना वैनयिकेन च ।
बबन्ध बान्धवस्नेह भीष्मस्तस्मिन्विशेषतः ॥ २६५ ॥
दाराणामनुरूपाणां मातुरुद्वाहहेतवे ।
गवेषणाय स प्रैषीन्निजान्प्रति दिशं नरान् ॥ २६६ ॥
मार्गदत्तदृशे तस्मै कदाचिद्धूलिधूसरः।
तेषामेकतमोऽभ्येत्य कथयामासिवानिति ॥ २६७ ॥
देव श्रीकाशिराजोऽस्ति प्रकाशः काश्यपीतले ।
यस्य मन्दाकिनी नित्यमना गृहदीपिका ॥ २६८ ॥
अम्बिकाम्बालिकाम्बा च तिस्रस्तस्यासते सुताः।
विभान्ति पुरतो यासां तृणवत्रिदिवस्त्रियः ॥ २६९ ॥
तासां तातेन विश्रब्धं प्रारब्धोऽस्ति स्वयंवरः।
रचयांचक्रिरे मञ्चास्तत्र वै चित्रशालिनः ॥ २७० ॥