पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

20 काव्यमाला।

ततः परं सहस्राणि वत्सराण्यायुरस्तु ते ।
एतस्य कुरुवंशस्य पताकाश्रियमाप्नुहि ॥ २४५ ॥
प्रमोदादेवमाशीभिरभिनन्द्य निजात्मजम् ।
नृपः सत्यवतीं सौम्ये मुहूर्ते पर्यणीयत ॥ २४६ ॥
ततः सत्यवतीं पत्नीं नवप्रेमां समीयुषः ।
भूपालस्य पुमर्थेषु कामः कामं प्रियोऽभवत् ॥ २४७ ॥
रतिपुत्रफला दारा इति नीतिवचस्तया ।
सत्यापयन्त्या सुषुवे पुत्रश्चित्राङ्गदाभिधः ॥ २४८ ॥
तेजस्वितिलकः पादैराक्रमन्भूभृतां शिरः ।
योऽभवज्जातमात्रोऽपि बालार्क इव दुःसहः ॥ २४९ ॥
विचित्रवीर्य इत्यासीत्सत्यवत्याः सुतोऽपरः ।
बभूव भूभृतो यस्माद्वंशः प्रांशुप्रसृत्वरः ॥ २५० ॥
तदा तयोः समग्रेषु हितकर्मसु जाग्रतः ।
प्रादुर्बभूव सौभात्रं गङ्गासूनोरकृत्रिमम् ॥ २५१ ।।
सोऽग्रजन्मानुजन्मानौ कृत्वाङ्कतलतल्पगौ ।
उल्लापैः श्रौत्रपीयूषैः खेलयामास भूरिशः॥२५२ ॥
क्षत्रगोत्रोचितैस्तैस्तैरन्यबालविलक्षणैः ।
एतयोर्बाल्यचापल्यैः स तुतोष क्षणे क्षणे ॥ २५३ ॥
अथाल्पीयो विदित्वायुरग्रिमस्तत्त्वदृश्वनाम् ।
शुभध्यानेन तत्याज शान्तनुर्मानुषर्षी तनुम् ।। २५४ ॥
विधिवद्विदधे भीष्मः पितुः खस्योर्ध्वदेहिकम् ।
इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥ २५५ ॥
सोऽथ चित्राङ्गद राज्ये शिशुमेव न्यवीविशत् ।
न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥ २५६ ॥
स ग्रीष्मेणेव भीष्मेण तथोग्रं धाम लम्भितः ।
उदयन्नपि दुष्प्रेक्ष्यो यथाभूद्भानुमानिव ।। २५७ ।।