पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।

तनयामनपत्यायाः प्रियायास्तामुपानयम् ।
नामधेयं व्यधां चास्याः सत्यं सत्यवतीत्यहम् ॥ २३२ ॥
मम पत्न्या च यत्नेन वात्सल्यनलकुल्यया ।
केलिकाननवल्लीवदियं वृद्धिमनीयत ।। २३३ ।।
त्रिलोकीतिलकीभूता प्रभूतगुणमन्दिरम् ।
सेयं सत्यवती पुत्री कृत्रिमा मम नौरसी ॥ २३४ ॥
पिता भवत्यपत्यानामीदृशां मादृशा कुतः।
आस्पदं कल्पवल्ल्या हि सुमेरुर्न पुनर्मरुः ।। २३५ ॥
तदस्या दिव्यवाचैवं निर्णीतः शान्तनुः पतिः ।
वीक्षितुं पितृभक्तिं तु त्वदीयामित्यजल्पिषम् ॥ २३६ ॥
तदिदानीमुपादत्स्व मत्सुतां तातहेतवे ।
अतःपरं त्वमेवास्या विश्रामः सुखदुःखयोः ॥ २३७ ।।
इत्यालप्य कुमारस्य प्रसरत्पुलकाङ्करः।
सुतां सत्यवतीं प्रीतामर्पयामास नौपतिः ।। २३८ ॥
अलमम्ब विलम्ब्रेन रथोऽयमधिरुह्यताम् ।
इति तां रथमारोप्य पुरं शान्तनवो ययौ ॥ २३९ ॥
नमश्चरेभ्यो निःशेष वृत्तान्तं ज्ञानपूर्विणः ।
प्रसन्नस्य पितुनीत्वा स चक्रे तामुपायनम् ॥ २४० ॥
पितापि भीष्ममाश्लिष्य निर्भरस्नेहपूर्वकम् ।
आत्मैकवेद्यमानन्दममन्दं वरमन्वभूत् ।। २४१ ।।
दृशा पीयूषवर्षिण्या श्रीविश्राममहीरुहम् ।
सिञ्चन्नुवाच गाङ्गेयमुत्सङ्गस्थापितं पिता ।। २४२ ॥
शृण्वन्ति पितुरादेशं ये तेऽपि विरलाः सुताः ।
आदिष्टं ये तु कुर्वन्ति सन्ति ते यदि पञ्चषाः ॥ २४३ ।।
आत्मना यस्तु विज्ञाय करोति पितुरीप्सितम् ।
एक एव स मे सूनुर्जाह्नवीशुक्तिमौक्तिकम् ॥ २४४ ॥