पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

मम सत्यवती माता गङ्गातोऽपि विशिष्यते।
संबन्धो जन्मसंबन्धात्प्रतिपन्नो महान्ननु ॥ १९३ ।।
यस्तस्या भविता सूनुः स ममेवोपयाचितैः ।
शुभः स देशः कालो वा यत्र भ्रात्रा समागमः ॥ १९४ ॥
खादयिष्यति ते पुत्री पुत्रेण विहितं मया ।
सुखं विनयतः पूर्वं पश्चात्तु तनुजैः कृतम् ॥ १९५ ॥
दूयते किं च तातोऽपि मया भृशमबन्धुना ।
रथस्यैकरथाङ्गस्य प्रत्यूहो हि पदे पदे ॥१९६ ॥
एकां शृणु प्रतिज्ञां मे बाहुमुत्क्षिप्य जल्पतः ।
सत्यवत्यास्तनूजस्य राज्यं नान्यस्य कस्यचित् ॥ १९७ ॥
अहं तु हन्तुमेतस्य प्रत्यूहव्यूहमन्वहम् ।
चापभृत्तां करिष्यामि सुतोऽस्मि यदि शान्तनोः ॥ १९८ ॥
अद्यैवाप्तं मया राज्यं तुष्टाश्च मम देवताः।
सत्यवत्या सधर्मिण्या यत्तातः सुमना भवेत् ॥ १९९ ॥
उदात्तामिति गाङ्गेयगिरमाकर्ण्य विस्मितैः ।
स्थिराणि खेचरैर्व्योम्नि विमानानि वितेनिरे ॥२०० ॥
विस्मयात्फुल्लनयनस्ततः सत्यवतीपिता।
अत्यन्तलुब्धो विश्रब्धं कुमारं पुनरभ्यधात् ।। २०१॥
साधु साधु कुमारेन्द्र त्वमेव पितृवत्सलः ।
स्फीतं गुणगणकीतं यदेवं राज्यमुज्झसि ॥ २०२ ॥
राजपुत्रा हि राज्यार्थमकृत्यान्यपि कुर्वते ।
उदात्तं तत्क्रमायातं को नाम त्वमिव त्यजेत् ॥ २०३ ॥
परं कुमार ये केचिद्भवितारस्तवात्मजाः।
न तेऽन्यस्य सहिष्यन्ते राज्यमूर्जितबाहवः ॥ २० ॥
त्वत्तो ये जन्म लप्स्यन्ते पवित्रक्षात्रतेजसः ।
कस्तान्विशिष्यते सोढुमन्यसिंहानिवाहवे ॥ २०५ ॥