(प्रकाशम्) आवुत्त । अपि कुशलम् ?
जीमू-राष्ट्रिय । अपि स्वागतम् ?
कुमु-यदि द्रक्ष्यामि भगिनीं, स्वागतमेव मे ।
जीमू-किमत्र संशयनिमित्तम् !
कुमु-(निश्वस्य) भगवन् वासुदेव ! प्रसीद शान्तमस्तु सोदरीविषयदृष्टं दुर्निमित्तम् ।
जीमू-कीदृशं तत् ?
कुमु-
स्वप्ने निरीक्ष्य जनको मम पद्मिनीं तां
ध्वस्तां स केनचिदरण्यमतङ्गजेन ।
मां प्राहिणोदधिकदूनमनास्स्वसार-
मावुत्तपत्तनमुपेत्य विचारयेति ॥
जीमू-हन्त । जीमूतपरिपालनप्रथमभाजनीभूतायां पद्मिन्यां किं दुर्निमित्तेनाकिञ्चित्करेण ।
कुमु-(वामाक्षिस्पन्दनमभिनयन्) आर्य । निर्हेतु स्पन्दते वामनेत्रम् । किं वा भविष्यति ? (इत्यश्रूणि मुञ्चति)
जीमू-भद्र । कृतं चापलेन ।
कुमु-
आस्कन्दने मे स्वसुरुग्ररूपो मत्तेभकः कौतुकितां दधानः ।
प्रतीक्षमाणः समयं सदाऽऽस्त इत्यन्तरङ्गं व्यथतेऽधिकं नः ॥
जीमू-
परितः पटलेनात्र भटानां शस्त्रधारिणाम् ।
भवने पाल्यमाने स किं कुर्यात्पद्मिनीं स्थिताम् ॥
कुमु-(स्वगतम्) जाल्म । तव भवनरक्षिणां जाग्रता मया दृष्टा खलु स्वरूपेण निर्गच्छताऽवरोधात् । (प्रकाशम्) आवुत्त ! तथा न मन्तव्यम् ।
उद्यानगामिनीमेतां मत्तेभप्रणिधिः पुरा ।
हर्तुमम्बरतो धावन्भास्करेण हतोऽपतत् ॥
जीमू-स को नाम ?
कुमु-तुहिनमण्डलाभिधेयः ।