अपि च,
मणिदीपावलिध्वस्तध्यान्तमुच्चासनव्रजम्।
अतिकोमलनैर्मल्यहृद्यशय्योपधानकम् ॥
मधु-हळा ! भमरिके! इदो इदो । (हला भ्रमरिके इत इतः) ।
(प्रविश्य भ्रमरिका, उभौ प्रणमति)
भास्क-भद्रे ! अपि कुशलम् ?
मधु-(अपवार्य) हळा, किंवि विणोदं करिअ तदो जहत्थं कहेहि । (हला ! किमपि विनोदं कृत्वा ततो यथार्थं कथय) ।
भास्क-भद्रे, किमास्ते तव सखी कुशलिनी ?
भ्रम-जा होन्तं अळद्धवती, ताए कहं कुशळम् ? (या भवन्तमलब्धवती तस्याः कथं कुशलम् ?)
भास्क-अयि मधुव्रते ! पद्मिनीं दर्शयिष्यामीति त्वं मां कुतः प्रलोभितवत्यसि ?
मधु-अय्य ! जं सही भमरिआ कहिदवई ते अहं तुमं विण्णाविदवदी । (आर्य ! यत्सखी भ्रमरिका कथितवती तदहं त्वां विज्ञापितवती) ।
भास्क-भ्रमरिके, क्व पद्मिनी ?
भ्रम-जीमूअक्संगदेत्ति सव्वेहिं विदिअं खु । (जीमूतवशङ्गतेति सर्वैर्विदितं खलु) ।
भास्क-मधुव्रते, मां प्रातारयः ।
मधु-अय्य, ममस्सिं णो अवराहो । (आर्य ! मयि नो अपराधः) ।
भास्क–हा प्रियतमे ! (इति मूर्च्छति) ।
भ्रम-हळा ! पदुमिणि, इदो पविसिअ फरिसिहि पिअम् । (हला ! पद्मनि, इतः प्रविश्य स्पृश प्रियम्) ।
(प्रविश्य पद्मिनी अभिभृशति भास्करम्)
भ्रम-हळा ! तिरोहिआ होहि । (हला ! तिरोहिता भव) ।
पद्मि-(तिरोधत्ते भित्त्वन्तरे) ।
भास्क-(उन्मील्य) (स्व)कुतोऽहं हिमजलपूर्णसरसि मज्जानीव !
भ्रम-अय्य, अवि समस्सासं गओसि ? (आर्य ! अपि समाश्वासं गतोऽसि ?)।