पृष्ठम्:पद्मिनीपरिणयः.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 1.
JOURNAL OF S. V. ORIENTAL INSTITUTE

पद्मि-हळा जामिणीवि संकुइदा । (यामिन्यपि सङ्कुचिता) (इति मूर्च्छति)

भ्रम-(वीजयित्वा) कुदो ण उच्छसिइ । (कुतो नोच्छ्वसिति ?। हा विहे! पदुमिणिं विणासिअ भमरिआजीविअं ओहरिदुं पउत्तोसि । (हा विधे! पद्मिनीं विनाश्य भ्रमरिकाजीवितमपहर्तुं प्रवृत्तोऽसि । (इति सिञ्चति शीतवारिणा) (निरूप्य) हा ! ण उम्मीळेइ ळोअणम् । (हा! नोन्मीलयति लोचनम्) ।

भास्क-अयमेवावसरो ममाविर्भवितुं, यतः प्रभातप्राया विभावरी । तथाहि

वियति तुहिनरश्मिर्मध्यभागात्प्रतीचीं
दिशमधिकमुपेतो दृश्यते पूर्णबिम्बः ।
मुहुरयमनुकूजत्युत्थितस्ताम्रचूडो
मुखरयति दिशः श्रीकान्तनाम द्विजानाम् ॥
कोकाङ्गनाविरहतापनिवृत्तिकालो
मौनव्रतक्षतिकरः करटावलीनाम् ।
नेत्रव्रजे तिमिरकृत्खलु कौशिकानां
कालो विकासिकविधीः समुपस्थितोऽद्य ॥
सद्यधुनाऽऽविर्भूय नोच्छ्वासयामि पद्मिनीं मीलितैव स्यात् । (इति प्रकटीभवन्) अहो प्रमादः ! कुतो नोच्छ्वसिति पद्मिनी ?

भ्रम-अज्ज सअळळोअखेमंकरेण तुह करेण परिमसदु भवं पदुमिणिम् । (आर्य ! सकललोकक्षेमङ्करेण तव करेण परिमृशतु भवान् पद्मिनीम्)।

भास्क-(करेण पद्मिनीं परिमृश्य स्पर्शसुखमभिनीय) (स्वगतम्) ।

सुदती किमु वृन्तमोचितैर्नवमल्लीदलसञ्चयैः कृता ।
उत बालसुधाकरप्रभारचिता सृष्टिकृतेक्षुधन्वना ॥

पद्मि-(उछ्वसिति)

भास्क-(तिरोधते स्तम्मे)

भ्रम-दिठ्ठिए उज्जीविआ पिअसही । (दिष्ट्या उज्जीविता प्रियसखी)

पद्मि-हळा ! किं सुहाधारासितं मह गतम् ? (किं सुमधारासिकं मम गात्रम्)

44