॥अथ चतुर्थोऽङ्कः॥
(ततः प्रविशति मधुव्रता । परिक्रम्यावलोक्य च)।
मधुव्रता-दिट्टिए विहदा सहि आअच्चइ । (दिष्ट्या विचिता सखी आगच्छति) ।
(प्रविश्य)
भ्रमरिका– अच्चरिअम् । (आश्चर्यम्)।
मधु-हळा ! मं सविहवट्टिणिं वि कुदो न पेख्खसि ? अहवा तारिसो तुगस्सिं राअवुत्तीसिणेही ।
(मां सविधवर्नितीमपि कुतो न पश्यसि ? अथवा तादृशस्त्वयि राजपुत्रीस्नेहः) ।
भ्रम-सहि मा कुप्पेहि । किं वि अच्चरिअम् पेख्खिअ परवतह्मि ।
(सखि ! मा कुप्य । किमप्याश्चर्यं प्रेक्ष्य परवशाऽस्मि ।
मधु-किं दं ? (किं तत् ?)
भ्रम-शारआणन्दसिस्सस्स तुहिणमण्डलेमि विक्कमविलसिदम् । (शारदानन्दशिष्यस्य तुहिनमण्डले विक्रमविलसितम्)।
मधु-रण्णा पेसिदा खु तं कावाळिअं जेदुं सेणा ! । (राज्ञा प्रेषिता खलु तं कापालिकं जेतुं सेना !) ।
भ्रम-गअणचारिणि तस्सि तिरोहिअरूअ सेण्णं किं करिस्सदि ?।
(गगनचारिणि तस्मिन् तिरोहितरूपे सैन्यं किं करिष्यति ?)।
मधु-तत्थ गदा सेणा किं विफळा आसि । (तत्र गता सेना किं विफलासीत् ? )
भ्रम-सेणागमणादो पुव्वं एव्व कावाळिअं जेतुण रख्खिदा पिअसहं । तेण महाभाएण । (सेनागमनात्पूर्वमेव कापालिकं जित्वा रक्षिता प्रियसखी तेन महाभागेन) ।
मधु-हळा ! तं तारिसं पेक्खन्ती । पदुमिणाए मण केरिसम् ? । (हळा ! तं तादृशं प्रेक्षमाणायाः पद्मिन्याः मनः कीदृशम् ?) ।
भ्रम-सुबाहुबहकारिणि रामभद्दे जानईहिअअं केरिसम् ! ।
(सुबाहुवधकारिणि रामभद्रे जानकीहृदयं कीदृशम् !)
मधु-जुत्तम् ! (युक्तम्)