हिमा-(सकोपम्) मुद्धे, पदुमिणि ! तुह किदे म्ह णाहो जदो मिच्चुं गदो तदो जहाक्हं वि तुमं ओहरिअ संहरिस्सम् । (मुग्धे पद्मिनि ! तव कृते मम नाथो यतो मृत्युं गतः ततो यथाकथमपि त्वामपहृत्य संहरिष्यामि)।
भास्क–किम् प्रलपसि ?। (इति गृह्णाति बाणम्)।
पद्मि-अज्ज, इत्थिआ खु ! । (आर्य स्त्री खलु !) ।
हिमा–(यन्त्रयानेन पलायमाना निष्क्रान्ता) ।
भास्क-(चापमवरोपयन्) सखे ! सफलमासीदिहाभिगमनम् ।
अरु–लब्धं भक्ता रमणीजनरक्षणपुण्यम् ।
भास्क-सर्व शारदानन्दमहिम्ना ।
पद्मि-(अप) सहि ! कहिदव्वं कहेहि । (सखि! कथयितव्यं कथय) ।
भ्रम-अज्ज ! तुए जीविदं पाविदा मह पिअसही कं दे पच्चुपआरं करिस्सदि। (आर्य, त्वया जीवितं प्रापिता मम प्रियसखी कं ते प्रत्युपकारं करिष्यति) ।
अरुणः-यत्कन्यकाजनेन महोपकारिणो यूनः कुलीनस्य करणीयं तत्करोतु तव प्रियसखी ।
- (इति भास्करहस्ताच्चापं आदाय मन्दमपसरति) ।
भ्रम-सहि ! संभमादो तत्त णिख्खित्तं चित्तपडं गहिस्सम् ।
- (सखि संभ्रमात्तत्र निक्षिप्तं चित्रपटं ग्रहीष्यामि)। (इत्यपसरति) ।
पद्मि-(स्वयमपि गन्तुमिव प्रवर्तते) ।
भास्क-भद्रे ! मा भैषीः । (इत्युपसरति) ।
पद्मि-(सलज्जमपसरतीव) ।
भास्क-(अनुसृत्य गृह्णाति वसनाञ्चलम्) ।
(नेपथ्ये कलकलः)
पद्मि -अज्ज ! आअच्छदि विअ मं रविखदुं तुहिणमण्डलादो चउरङ्गसेना । तदो मं मुंचेहि ।
- (आर्य ! आगच्छतीव मां रक्षितुं तुहिनमण्डलात् चतुरङ्गसेना । ततो मां मुञ्च) ।
(इति निष्क्रान्ता)
भास्क -(मदनबाधां निरूपयन्)