पृष्ठम्:पद्मिनीपरिणयः.pdf/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 अथ नवमे वयसि वर्तमानं निजात्मजं श्रीवरदार्थः श्रीमदनन्तशयनसंस्थानपण्डितवरेण्य श्रीपरदेवताकरुणापरिणाम श्रीरामस्वामिशास्त्रिणः सन्निधिं प्रापय्य तं महात्मानमर्थयामास तस्य काव्योपदेशाय । स पण्डितसार्वभौमस्तमेनमन्तेवासिपदेऽङ्गीकृत्य सद्यस्सुसमये श्रीरामोदन्तकाव्यपठनायाज्ञप्य 'वागर्थावि' वेति प्रथमः कालिदासीयमङ्गलपद्यं पाठयित्वा ‘वत्स! श्लोकपठनात्परं पदविभागः कर्तव्यः, उच्यता’ मिति । गुर्वाज्ञानुपदमेव अस्मत्सुन्दरराजसुधीवरेण्यः 'ज्ञातं ज्ञातं, वागर्थावि' वेति स्वयमेव पदविभागमकरोत् । तदानीं श्रीरामस्वामिशास्त्रिकविमणिः सञ्जातविस्मयः ‘ननु महाभाग वरदराज सखे ! सुप्रजा असि । मामेवैनं निश्चनु । अयं मदीयान्तेवासी कविचक्रवर्ती भविष्यति इति सकरघोषमाघोषयति स्म । तदारभ्य काव्यनाटकालङ्कारादीन् श्रीमच्छास्त्रिसन्निधावभ्यस्यन् अन्तरान्तरा स्वसूत्रस्वशाखास्वागमादीन् पितृमुखेनाधीयानः पञ्चदशे वयसि सर्वशास्त्रमर्मवेदी कांश्चिच्छ्लोकानपि रचयितुमारेभे ।

 अथ श्रीमतः इलतूर् रामस्वामिशास्त्रिणः श्रीमदनन्तशयनसंस्थानाधिप श्रीविशाखमहाराजसन्निधाने वसन्तः श्रीकेरलवर्मदेवादीन् शास्त्राण्यध्यापयन्तः स्यानन्दूरनगरे चिरायन्ति स्म । तदानीं खलु श्रीसुन्दरराजाचार्यः समयवैयर्थ्यं किञ्चिदप्यसहमानः पितरमनुज्ञाप्य प्रस्थितः पादचार्येव वसुतातनगरीं प्राप्य तत्र तत्संस्थानमहापण्डितं कविकेसरिबिरुदाङ्कितं श्रीमन्तं स्वामिदीक्षितवरेण्यं प्राप्य व्याकरणशास्त्राभ्यासाय तमर्थयन्ववन्दे । तेन महात्मना 'तथे' त्यङ्गीकृतः सानन्दम् । स कविराडस्य मेधायै स्पृहयालुस्सत्स्वपि बहुषु शिष्येषु विशिष्यैनं कृपया संवर्धयन् तदेकपरायणोऽभूत् । स पण्डिताग्रणीः वल्लीपरिणयाग्ल्यं चम्पुकाव्यं रचयन् तल्लेखनायैनं नियुयुजे । अथ मेधावी सुन्दरराजस्तदविज्ञातमेव वल्लीपरिणयस्य काञ्चिन्मनोज्ञां व्याख्यां निर्मायानन्तरं गुरुसन्निधौ विज्ञापयामास । स दीक्षितवरेण्यस्तदाकर्ण्य महानन्दाब्धिमग्नः परिष्वज्यैनं ‘वत्स! उत्तरोत्तरं वाग्विलासो भूयाते । त्वमेवाहमहमेव त्वं’ इति बहधोद्घुष्य व्याख्यया तया सह वल्लीपरिणयं मुद्रयामास । तदारभ्य तत्संस्थानपण्डितसभायां स्वस्थाने एनमप्यारोपयामास । तदानीं तत्र महीपालपदमारूदः बहुभाषावेदी महाराजराजपूजितः वेङ्कटेश्वर एट्टप्पमहाराजः श्रीमतोऽस्मदाचार्यादलङ्कारशास्त्रमभ्यस्य अद्यापि तत्र शास्त्रे अद्वितीयो विराजते । तदारभ्य तत्संस्थानमहीपतीनां तद्राजवंश्यानां चायं सुधीर्नेत्रायते स्म ।

 रजभिर्बहुधा पीतवसनकटकादिभिस्सम्मानितस्तत्र वसन् एकविंशे वयसि निजानुरुपया श्रीवेङ्कटलक्ष्मीनाम्न्या सुरूपाया द्वैतीयीकाश्रममारुरोह ।अचिरात्कन्यकामणिञ्च लेभे ।

 तस्यानुजातानां नामानि । श्रीकृष्णः, शेषाद्रिः, लक्ष्मीनारायणः, रामः, वासुदेवः, लक्ष्मीः, श्रीनिवासः, वेङ्कटाचलः इति । एतेषु द्वितीयः तुरीयः पञ्चमस्सप्तमश्च एकैकशास्त्रेषु निपुणाः तत्र तत्र राजपण्डिताश्चासन् । अन्ये लोकविज्ञानचतुराः धनधान्यपोषणचणाः सर्वेऽप्यग्रजाज्ञां शिरसा वहन्तः ऐकमत्येन स्वस्वदारादिभिः अस्मिन्नेव एकगृहे सुखिनोऽवसन् ।