पुटमेतत् सुपुष्टितम्
[XIII. 1.
JOURNAL OF S.V. ORIENTAL INSTITUTE
भ्रम-हला ! मा धावेहि । समाअदो सो महाणुहावो तुमं रख्खिदुम् ।
- (मा धाव! समगतस्स महानुभावस्त्वां रक्षितुम्) ।
पद्मि-(परावृत्य पश्यति)
भास्क- वित्रस्तमुग्धहरिणीनयनां भयेन
- तां कम्पमानकुचकुम्भयुगां प्रियां मे ।
- सम्पश्यतो हृदयमप्यभियातिमेनं
- श्रृङ्गारवीररसयोः समुपैति काष्ठाम् ।
तुहि-किं मां रुणत्सि ? पश्य मे प्रतापम् ।
भास्क-तुच्छ ! किं जल्पसि दीनजनमात्रदुस्सहप्रसर ?
पद्मि– हला ! इदो परं णत्थि भअम् । तदो रुक्खन्तरे लीणाओ पेक्खम्मो दइदविलसिदम् ।
- (इहः परं नास्ति भयम् । ततो वृक्षान्तरे लीने प्रेक्षावहे दयितविलसितम्) ।
भ्रम-दिट्टिए दिट्टो महाप्पहाओ! । (दिष्टा दृष्ट्योमहाप्रभावः ?) (इति पादपान्तर्हिते स्थिते)
हिमा-हद्धि ! हे । को वि बालो मह दइदं अहिंक्खिवइ । (हा धिक् ! कोऽपि बालो मम दयितमधिक्षिपति) ।
तुहि-रे जाल्म, किं कथयसि ?
- उद्वेजयामि जनतां यदि सम्प्रवृत्तो
- भूमीभृतोऽत्र महतोऽपि तिरस्करोमि ।
- पीडामतीव जनयामि च विप्रयोगि-
- चित्तेषु कोऽस्ति सदृशी भुवनत्रये मे[१] ? ॥
- उद्वेजयामि जनतां यदि सम्प्रवृत्तो
हिमा-मन्द ! पिओ मे किं तुमं विमुञ्चे ? । (मन्द! प्रियो मे किं त्वां विमुञ्चेत् ?) ।
पद्मि-हला ! मम किदे पियस्स किं वि भवेत्ति वाउलंहि । (हत्य ! मम कृते प्रियस्य किमपि भवेदिति व्याकुलाऽस्मि) ।
भ्रम-न किं वि भवे । (न किमपि भवेत्)
- ↑ भूमीमृतः गिरिन् राज्ञश्च । विप्राश्च योगिनश्च, तेषां चित्तेषु ।
32