पृष्ठम्:पद्मिनीपरिणयः.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः

पद्मि-हला ! एत्थ विणोदकिदे आअदं मं अहिअं पीडेइ उज्जाणं कण्णकठिणेहिं कोइलणादेहिं ण अणदुद्दस्सेहिं पुप्फणि अरेहिं, देहताक्करेहिं सुरहिवादेहिं वि ।

 (अत्र विनोदकृते आगतां मां अधिकं पीडयति उद्यानं कर्णकठिनैः कोकिलनादैर्नयनदुर्दर्शैः पुष्पनिकरैः देहतापकरैः सुरभिवातैरपि) ।

भास्क-सत्यमेतत् !

पुष्पेपोस्तरवारिसञ्चयरुचिं चूतद्रुमे पल्लवो
धत्तेऽयं स्तबको नवोऽत्र नलकाभां नालिकेरद्रुषु ।
तत्रैवाकलनीयवृत्तगुलिकाशोभाञ्च धात्रीफलं
सज्जेष्वासधुरामगस्त्यमुकुलं भल्लश्रियं कैतकम् ॥

अरु-(ऊर्ध्वमवलोक्य) सखे ! किमिदं धूमधूसरितं गगनं लक्ष्यते ।

भास्क-(विलोक्य) पश्य ! मायाकल्पितं व्योमयानं आपतति ।

अरु-सखे ! पद्मिनीविप्रलम्भाय समुत्पतितमेतदिति मन्ये ।

भास्क-तत् त्वरितं निवेशनाच्छरासनमानय ।

अरु-तथा । (इति निष्क्रान्तः) ।

(आकाशे यन्त्रयानारुढो हिमान्या सह तुहिनमण्डलः) ।

तुहि-प्रिये ! दृश्यते पद्मिनीयमुद्याने । भवती भवतु अवहितचित्ता, यावदेतामपहरामि । (धरण्यमवरुह्य)

हिमानी- होदु (भवतु) ।

पद्मि- हला ! कोवि पुरिसो अत्थिमालाभूसणभीसणो तुवरिअं गअणादो अहिधावइ ।

 (कोऽपि पुरुषोऽस्थिमालाभूषणभीषणस्त्वरितं गगनादभिधावति) ।

भ्रम-हद्धि हद्धि । (हा धिक्, हा धिक्) ।

पद्मि-दाणिं में को णाहो रख्खिस्सदि ? । (इदानी मां को नाथो रक्षिष्यति ?)

(इति पलायिते)

भास्क- कः पद्मिनीं गुणवतीं परिभावयितुं भुवीह शक्नोति ।

तां भास्करे निकामं रक्षितुकामे विरोधिनां भीमे ? ॥

(इति निवारयति तुहिनमण्डलम्)

31