पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये तृतीयोऽङ्क:
अरु-मया भणितव्यं भ्रमरिकेयमभाणीत् ।
भास्क-सखे ! मामेव किं मन्यसे चित्रविन्यस्तम्?
अरु-न शङ्का मम ।
भास्क-(स्वगतम्) यदीयमाकृतिः पद्मिनीमनोहरा, ततः को नाम युवा भास्करादन्यः ।
(प्रकाशम्) अम्भोरुहेण वदन विततान वेधा
- नीलोत्पलेन नयनं स्तबकेन कौचित् ।
- दन्तांश्च कुन्दमुकुलैरधरं जपाभि-
- र्नोचेत्कथं मम लगेदिह चित्तभृङ्गः ॥
पद्मि-हला, चित्तपडदस्सणप्पहुदि (चित्रपटदर्शनप्रभृति)
- परुसो परद्दुदणादो पवणो मन्दो पवाइ अच्चुण्णो ।
- जोह्वा आदवसरिसी किं कादव्वं सहेमि णो दावम् ॥
- (परुषः पत्मृतनादः पवनो मन्दः प्रवाति अत्युष्णः ।
- ज्योत्स्ना आतपसदृशी किं कर्तव्यं सहे न तापम् ॥)
भास्क- यस्मिन्नियं वहति मानसमीदृशेन
- प्रेम्णा भृतं हरिणलक्ष्मणि रोहिणीव ।
- दामोदरेऽर्णवसुतेव शशाङ्कचूडे
- दाक्षायणीव स हि पुण्यवदग्रगण्यः ॥
भ्रम-(चित्रं प्रति) तुमं एव्व पुण्णलोअग्गगणणिज्जो । तहा णो जदि कहं एव्वं तुमस्सिं एदाए हिअअं पच्चुत्तं भवे ।
(त्वमेव पुण्यलोकाग्रगणनीयः । तथा नो यदि कथमेवं त्वय्येतस्या हृदयं प्रत्युप्तं भवेत् ) ।
पद्मि-भो मअण ! दुल्लअजणणिमित्तं मं किं पीडेसि,? अहवा जेण सरेण णिहओ विरहिजणो सज्जो लोअन्तरं गच्छेत् तं ममस्सिं मुंचेहि ।
(भो मदन ! दुर्लभजननिमित्तं मां किं पीडयसि ? । अथवा येन शरेण निहतो विरहिजनो सद्यः लोकान्तरं गच्छेत् , तं मयि मुञ्च) ।
29