पृष्ठम्:पद्मिनीपरिणयः.pdf/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्


॥ श्रीः ॥

श्रीविखनसगुरुभ्यो नमः

श्रीसुन्दरराजकविजीवितसङ्ग्रहः

श्रीवरदराजसङ्कलितः ।

श्रीमत्सुन्दरराजसूरिचरितप्रख्यापनायोत्सुक-
स्तद्भ्रातृव्यतनूभवो वरदराजाख्यस्तदन्ते वसन् ।
तत्पादाम्बुजयुग्ममेव कलयन् स्वान्ते करोत्युद्यमं
श्रीवैखानसपार्थसारथिसुहृद्वर्येण सम्प्रेरित: ॥

इत्थम् अतीतेपु बहुषु वत्सरेषु अनन्तशयनसंस्थानन्तर्गते इलत्तूराख्याग्रहारे

आसीदत्र कुले सुधीर्वरदराजाख्यस्स कृष्णाम्बया
सत्या सद्गृहिधर्ममार्गनिरतो भैषज्यशास्त्राध्वरी ।
तस्यासन् गुणिनस्सुताः सहृदया अष्टौ तथा कन्यका
काचिताभिरयं प्रजाभिरामता-प्रीतिं दधौ शोभनाम् ॥

यो जातोऽध्वरिगट् पुरा स भुवने भूयोऽपि कृष्णाम्बिका-
गर्भालङ्करणो भवन् प्रथमतो जज्ञे धरण्यां पुमान् ।
कोल्लम्बे वरषोडशोत्तरसहस्राब्दे प्लवाख्येऽर्कदै-
वत्ये भेऽस्मदुदारभाग्यपरिणामो लोकपुण्यांशतः ॥

वार्तां विदन् शङ्करसुब्बनामा कार्तान्तिकः पुत्रजनेः स्वसख्युः ।
सद्यो मुदा संसदि जातमेनं हृद्यं कवीन्द्रं भवितारमूचे ॥

 अथ सुधीः सुन्दरराजतनुजन्मा वरदराजः सत्सन्तानोत्सवे व्रीहिदानादिभिर्भूसुरानानन्दयन् यथाविधि च जातकर्मोत्थाने समाचरन् सुसमय एनं वैष्णव्या पैतामह्या च शुभया आख्यया आह्वापयामास । ततः क्रमेण समेधमानमेधाधिलासं विजृम्भमाणतत्तत्कालीनलीलाविनोदं सर्वजनस्पृहणीयसर्वाङ्गसुन्दरं हृद्यसत्त्वोज्ज्वलन्मुखारविन्दं सुकुमारं कुमारं श्रीविखनोमुनीन्द्रमतमनतिक्रम्यान्नप्राशनादिभिस्समेधयामास । अयं वरदराजात्मजः श्रीमान्

आबाल्यत: सर्वमनोहराभिर्गीर्भिस्सदा रञ्जितसर्वलोकः ।
प्राप्यादिमं स्वाश्रममुज्ज्वलन्त्या ब्रह्मश्रियाऽऽचार्यवरं सिषेवे ॥