पृष्ठम्:पद्मिनीपरिणयः.pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ XIII. 1
JOURNAL OF S. V. ORIENTAL INSTITUTE

शार-(स्वगतम्) कौमुद्यामुत्कण्ठैवात्र निदानम् । (प्रकाशम्) कौमुदीपटे गृहीत्वा कुमुदाकरस्वरूपमपि प्रदीयताम् ।

कासा-(स्वगतम्) गभीरहृदयो योगी । (प्रकाशम्) कोऽत्र भोः ! (प्रविश्य)

कञ्चुकी-आणवेदु भट्टा (आज्ञापयतु भर्त्ता)

कासा-निगद्यतां कृतहस्तः कौमुदीपटे कुमुदाकरस्वरूपमपि विन्यस्य दीयतां पूज्यपादहस्त इति ।

कञ्चुकी-तह (तथा) (इति निष्क्रान्त:)

शार-वत्स भास्कर । तावदत्रैव वसतु भवान् सह वयस्येन, यावदहं कौमुदीमधिगम्यागमिष्यामि ।

कासा-(स्वगतम्) कोऽप्ययं प्रथमोऽभ्युदयः, यत् भास्करः सन्निधत्त इति ।
अरु-(अपवार्य) सखे !

व्याजेन येन केनाऽपि वस्तुमत्रामिवाञ्छतः ।
भवतो गुरुनिर्देश ईदृशेऽभिमतो न किम् ? ॥}}


भास्क-(अपवार्य) मा परिहसीः ।
कासा-भगवन् । श्वः परश्वो वा आगताय जीमूताय समर्पणावशेषा वत्सा वर्तते । तत्र इतिकर्तव्यतां न जाने ।
शार-मा चिन्तय । यत्र कुत्रचित् गतोऽप्यहं प्रतीक्षमाणो भवदुपस्थानसमयं चक्षुषाऽऽन्तरेण तत्क्षणं सन्निधास्ये ।
'कासा-महान् प्रसादः । (सर्वे प्रणमन्ति योगिनम्) ।
शार-भद्रमस्तु । (इति निष्क्रान्तः) ।
कासा-भद्र, भास्कर !

आयत्तमतास्त्युपभोगयोग्यं यद्यन्ममाशेषमितःपरं वाम् ।
भुक्तावशिष्टं विनियोक्तुकामस्तत्तत्स्वयञ्चास्मि सुहृद्विधेयः ॥

भास्क-आर्य । अनुगृहीतोऽहम् ।
कासा-कोऽत्र भोः ? ।

22