पृष्ठम्:पद्मिनीपरिणयः.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः

कासा-चक्षुषी निमील्योन्मील्य च

यावत्करेण मुकुलं स्पृशतीह भद्र-
स्तावत्क्षणेन भवति स्फुटितं स्वयं तत् ।
तन्मध्यवर्तिमणिसम्भवमेतदोजः
सोढुं कथञ्चिदपि मे क्षमते न चक्षुः ॥

शार-सहर्षं मणिं गृह्णाति । राजन् ! अचिरादस्य महिमानमवेत्य प्रापयामि भवन्तम् ।

कासा-यथा रोचते भगवते ।

शार-(अपवार्य) राजन् ! किं विदितो भास्करप्रभावः ।

कासा-(अपवार्य) विदितभास्करप्रभावमपि मानसं मे विचिन्त्य जीमूतविजृम्भणं दूयते ।

शार-मा स्म चिन्तयः । देिष्टमनुकूलं नः ।

कासा-न ज्ञायते मत्तेभवृत्तम् ।

शार-(स्वगतम्) हन्त ! कासारव्याहारस्मारिते मत्तेभके करस्थमणिवरमहिम्ना सर्वं तदीयचेष्टितं प्रत्यक्षं दृश्यते । अद्य खलु अयं तुहिनमण्डलं नाम कापालिकं चोदयति - 'कथञ्चिदपि पद्मिनीमाहरे'ति । स च ‘मायया व्योमयानं निर्माय तेन वियति गच्छन् तामपहरामि' इति प्रतिजानीते । अत्रागच्छतु नाम स पाषण्डः । किन्न हन्वेत चण्डकरेण भास्करेण तुहिनमण्डल सन्निहितेन । (प्रकाशम्) राजन् ! मा स्म दृयेथाः । त्वत्पुत्र्याः सर्वकामितसिद्धये भगवत्या भार्गव्याः प्रसादसम्पादकं किमपि व्रतमुपदेक्ष्यामि ।

कासा-अनुगृहाण ।

शार-किमन्यत् ?

कासा-वत्सः कुमुदाकरः

अनुदिनमिह चित्रदर्शनाह-
प्रभृति हि तान्तनितान्तपाण्डुराङ्गः ।
श्वसिति च मुहुरुष्णदीर्घमाप्तै-
र्न निनदति प्रतिवाक्यमत्र पृष्टः ॥
21