पृष्ठम्:पद्मिनीपरिणयः.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ XIII, 1
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-कुतो भगवतः शारदानन्दस्य जीमूतविजृम्भणासहिष्णुता । पुनरस्मदुल्लासे महदौत्सुक्यं च ।

अरु-

कारणं महतां प्रीतावप्रीतौ चामलात्मनाम् ।
जनस्य सुगुणत्वञ्च दुर्गुणत्वञ्च नेतरत् ॥

कासा - (अपवार्य) भगवन् ! अनितरसुलभगुणगणसम्पूर्णां कामपि कन्यां प्राप्य तया धीरोदात्तजामातृको भवेयमिति मनोरथं लब्धुं भगवन्तं मारारातिमाराधयन्नहं तदीयाभिषेकसमुचितं सलिलं पूजोपयोगि पुष्पञ्च समुत् समुत्पादयन् (आसम्) ।
शार-ततः ।
कासा-कदाचन प्रत्यूषसमये स्वप्नदशायाम् -

निर्णिक्तमौक्तिकमहीधरश्रृङ्गशङ्का-
सन्दाधिमूर्तिशशलक्ष्मकृताक्तंसम् ।
वामाङ्कभासुरकलत्नमतिप्रसन्नं
तेजोऽभवन्मम पुरो वृषभाधिरूढम्॥

शार-अहो ! चन्द्रचूडस्य भक्तेषु क्षिप्रप्रसादिता । ततः ।
कासा-ततः प्रणताय मह्यं भूतेशः महत्किमपि सरोजमुकुलरूपं वस्तु निस्तुलं प्रदाय प्राह स्म च ।
शार-कथमिव ।
कासा -

लक्ष्मीनिवासभवनं भविता कुमारी
राजंस्तवास्य मुकुलस्य करेण भेदः ।
स्याद्यस्य तेन पुरुषेण भविष्यसि त्वं
जामातृमान् तमिह विद्धि हरेरभिन्नम् ॥

 किञ्च, 'एतदन्तर्वर्तते कश्चिन्मणिः । तन्महिमानमवगमिष्यति कश्चित्संयमी'ति ।

शार-यद्येवमानीयतां तन्मुकुलम् । किमिदं स्वप्नमात्रम् ?

कासा-नहि, क्स्तुत एव । (उत्थाय निष्क्रम्य नयति मुकुलपेटीम्) ।
शार-(उद्धाट्य पेटीम्) वत्स । गृह्यतामिदं पुनहरदत्तं कार्मुकं रामभद्रेणेव भवता ।
भास्क-(गृह्णाति करेण मुकुलम्) ।

20