पृष्ठम्:पद्मिनीपरिणयः.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE

शारदा-वत्स ! पश्य,

[१]श्रीधर्मिनव्यनगरं नामेदं भाति साधु जयतीह ।
गोदा रमणीगुणभृज्जनतादुरितप्रणाशने निरता ॥
इह हि पार्श्वद्वयोल्लसदनुष्णमयूखबिम्ब-
क्रीडोत्पतन्मृगविहारिकुमारसौधाः ।
वीथ्यो विभान्ति परितो गरुडध्वजस्य
प्रासादमुच्चतरगोपुरतोरणाढ्यम् ॥
सरसगुणधरोत्था धिन्वती विष्णुचित्तं
जनकमिह विशेषापादकात् सौमनस्यात् ।
जयति विवुधलोकश्लाघनीया शुभाङ्गी
कमलवदननिर्यत्सूक्तिमाध्वीकधारा ॥
शतानन्देन तीर्थेन श्रयतां दुरितं हरन् ।
सतामग्रेसरो नाथः श्रीमानिह विराजते ॥

कासा-(वीक्ष्य) तामावृतिं सकललोचनभीमरूपां

स्वीयौजसा विदलयन्नतिचारुमूर्तिः ।
आनन्दयन्नखिलचक्रजनं चकास्ति
कः पद्मिनीं सुखयितुं प्रभवेत्सुरोऽस्मात् ॥

 (सप्रमोदं शारदानन्दमुपसृत्य) भगवन् ! प्रतिपालयामि सहभास्करस्यात्र भवतः समागमम् । भवतः सान्निध्येन खलु निष्कलुषः सामोदश्च भवामि ।

18
  1.  श्रीधर्मिभिः = श्रीमद्धार्मिकैः नव्यम् = स्तुत्यं । नगरम् = श्रीविल्लिपुत्तूरिति द्राविडभाषायां प्रसिद्धनाम पुरम् । गो दार मणी गुणान् बिभर्त्तीति तथोक्ता जनता । रमणीगुणभूत सुन्दरीगुणशालिनी जनतायाः दुरितप्रणाशने निरता च गोदा तन्नामकदेवी । विष्णुचित्ताख्यभगवद्भक्तगृहेऽवतीर्णा । अपि च, श्रीधर्मिनव्यनगरं मिथिलापुरम् । गौः भूमिः दाराः येषां ते राजानः तेषां मणी श्रेष्ठः श्रीरामः तस्य गुणभृत्सीता इति च । सरसगुणायां जलगुणसद्दितायां धरायां भवतीति तथोक्ता । विष्णुचित्तं नारायणपरम् । जनकं जनम । सरसगुणा धराभूस्सीता । विष्णुचित्तं जनकं वैदेहम् । सरसगुणानां धरतीति धरा । भूः भूदेवी गोदानाम्नावतीर्णा जनकं पितरं च तन्नामकं विष्णुचित्तं द्विजम् । अपि च विशेषापादकात् सौमनस्यात् शोभनमनोभवात् जनकं धिन्वती । सौमनस्यात् पुष्पसम्बन्धिनः विशेषापादकात् विष्णोर्भगवतश्चित्तं धिन्वती । भगवती गोदा प्रतिदिनं स्वकेशधृतमाल्यं समर्प्य भगवन्तं प्रीणयामासेति गोदाचरित्रे स्पष्टम् । शतानन्देन बह्वानन्दकरेण तीर्थेन पयसा सरोनाथः कासारः । श्रयतां सतां दुरितं हरन् अग्रे विराजते । सतामग्रेसरः श्रेष्ठः इति च । शतानन्देन तन्नाम्ना तीर्थेन पुरोहितेन इति च ।