पृष्ठम्:पद्मिनीपरिणयः.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE

कृत-(स्वगतम्) रोहिणीच्छविं दृष्ट्वापि समुल्लासममुपेयुषोऽस्य चित्तं किं लगेन्मृगशिरो द्युतौ वा परासु मनोहरासु अपि आर्द्राशोभाप्रभृतिषु वा । ततः कौमुदीमेव दर्शयामि । (प्रकाशम्)

कल्याणी क्षीरवाराशिकन्यकासोदरी दृशः ।
गोचरीक्रियतामेषा प्रकृत्या विमला त्वया ॥

कुमु-(वीक्ष्य) (स्वगतम्)

सौन्दर्यदुग्धजलधिं कुतुकात् प्रमथ्य सारं तदीयमखिलं जलजासनः किम् ।
गृह्णन्ससर्ज जगतां नयनोत्सवाय चित्तेन संप्रणिहितेन निकाममेताम् ? ॥

शार-(अपवार्य) राजन् !

कौमुद्यालोकसंभृतविकासः कुमुदाकरः ।
कै कोल्लासलालाक्षिभ्रमरो राजतेतराम् ॥

कासा-भगवन् !

अभीप्सन् हरिणाक्रान्तसल्लकीपल्लवावलिम्।
चलपत्रदलश्रेणीं सुलभां कलभोऽस्यति ॥


शार-(अपवार्य) राजन् !
दिष्ट्या भवदुक्त्या कुमुदाकरस्य कौमुदी सुलभैवेति ज्ञायते
<ref>श्लेषार्थः. हरिणाकान्त-सिंहाकान्त, हरिणेन-एणेन आक्रान्त, इति ।<ref>हरिणेनाक्रान्तायाः सल्लकीपल्लवावलेः प्राप्तिः सुशका खलु कलभस्य ।

कृत-विद्यन्ते परा राजकुमार्यः ।
कुसु-द्रष्टव्या एव यद्यवकाशः ।
कासा-दिष्ट्या लब्धोऽवकाशः कौमुदीदर्शनावधि ।

कुसु-(लज्जां नाटयति) ।
शार-भद्रे ! तव किमस्ति परेषामपि पार्थिवनन्दनानां दर्शनेऽवकाशः ?
पद्मिनी-अज्ज ! अहं किं अतणो पहवेमि ? (आर्याहं किमात्मनः प्रभवामि)
शार-तव कः पुनः प्रभवति ।
पद्मिनी-गुरुअणो । (गुरुजन:) ।

12