पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः
सूत्र-तत्र सञ्चितसुकृता वञ्चिमहीपतयः सुमतयः सन्ततं निवसन्ति खलु ?
मारि-अथ किम् ।
सूत्र-तत्र
- मत्या धृत्या शुभकवितया विद्यया देवभक्त्या
- लक्ष्म्या चोञ्चैरुपचिततया प्राप्य षाण्मातुरत्वम् ।
- शक्तिं विभ्रद्विमतविजये ख्यापयन्नाम नैजं
- राजोत्तंसो जयति धरणौ श्रीविशाखो यशस्वी ॥
- मत्या धृत्या शुभकवितया विद्यया देवभक्त्या
- तदीयं भुजमालम्ब्य वर्तते पाण्ड्यमण्डले ।
- इलत्तूराख्यनगरी कविरत्नावलीखनिः ॥
मारि-- विदितं तन्नगरम् । यत्र खलु श्रीवैखानसकुलतिलकायमानवरदराजनन्दन:, कृष्णाम्बिकागर्भशुक्तिमुक्तामणिः, सुन्दरराजशर्मा श्रीरामसन्देशहरप्रसादलब्धप्रतिभाभासुरः प्रकाशतेतराम् ।
सूत्र-स हि महितं श्रीरामभद्रविजयाभिख्य चम्पूप्रबन्धं वैदर्भीवासुदेव हनूमद्विजयाभिधाननाटकयुगलञ्च निर्माय पश्चादुत्पाद्येतिवृत्तं पद्मिनीपरिणयाभिधानं प्रकरणं ग्रथयन् अस्मासु न्यस्तवान् रसिकपरिषदि प्रयोक्तव्यमिति ।
मारि-स्मारितोऽस्मि भवता साधु । आर्य ! केऽपि नूतनान् प्रबन्धान् नाद्रियन्त इति शङ्का मामाकुलयति ।
सूत्र-अत्र विषये कविना तेन कश्चिदुपन्यासः कृतः ।
मारि-कथम् ?
सूत्र--
- " ये पूर्वासु च नूतनासु कृतिषु स्वारस्यमात्रं समं
- गृह्णीयू रसिका न तान् प्रति वचः किं[१] वाच्यमास्ते मम ।
- ईर्ष्यातोऽभिनवप्रबन्धविमुखा ये सन्ति ते नाधिकाः
- तादृक्षस्य च भाविनः कृतिरियं ग्राह्यैव पूर्वत्वतः ॥"
- " ये पूर्वासु च नूतनासु कृतिषु स्वारस्यमात्रं समं
मारि-उपपन्नम् ।
- ↑ किं किमपि ।